२१८
सुभाषितरत्नभाण्डागारम्
[ ५ प्रकरणम्
किम्थ॒वा दैवादुहो श्रूयते नामाष्यत्र न ताद्दृशस्य_हि मणे
रत्नानि गृह्णाति य ॥' ६० |॥ यन्मुक्तामणयोऽम्बुधेरुदरत'
क्षिप्सा महावीचिभि, पर्यन्तेषु लुठन्ति निर्मलरुच. स्पष्टाट्टहासा
इव । तत्तखैव परिक्षयो जलनि॒िधेद्वॉपान्तरालम्बिनो रत्लाना
तु परिग्रहव्यसनिन. सन्त्येव संायात्रिका. ॥ ६१ ॥ यत्रा-
नुल्लिखिताख्यमेव निखिल निर्माणमेतद्विधेरुत्कर्षप्रतियोगि-
कल्पनमपि न्यक्कारकोटि. परा । याताः प्राणभृता मनोरथ-
गतीरुल्लङ्घय यत्सपदस्तस्याभासमणीकृताश्मसु मणेरश्मत्व-
मेवोचितम् ॥ ६२ ॥ काचा. क॒ाञ्चन्भूषिता. क॒ति न वा |
मुष्णन्ति रत्त्रश्रिर्ये मौलौ वा कति नोद्वहन्लुयपूधियस्तानेव
र॒ह्णश्त्रम्ठा॒त् । अ॒क्ष्णा ये पुनरुन्मृजन्ति तिमिर यैर्नाम रत्नाकरः
सिन्धुखेत पृथगेव हन्त मणयस्तष्वप्यभिज्ञाः पृथकू ॥ ६३ ll
वज्रव्रमाणः
यस्य वैज्रमणेर्भेदे भिद्यन्ते लोहसुचयः । करोति तत्र कि
नाम नारीनखविलेखनमू ॥ ६४ |॥
कौस्तुभमणिः
न श्वेताशुवदन्धकारदलनदुिद्दघोतिते रोदसी नाप्यैराघत-
वन्निरस्तदितिजत्रास. कृतो वासवः । नो चिन्तामणिरत्लवत्रि-
भुवने छिन्न॒ा विपद्वाऽर्थिना भूत्वा तस्य हरेरुरःप्रणयिना केि
कौस्तुभेनार्जितम् ॥ ६५ ॥ ' तः स
चन्द्रकान्त-सूर्यकान्तेो
सोमकान्तो , मणि. स्वच्छ, सेर्यकान्तस्तथा न किम् ।
उद्भारे तु विशेषोऽस्ति तयोरमृतवह्वय. ॥ ६६ ॥
चन्द्रकान्तः
सुधाकरकरस्पशद्वहिर्द्रवति सर्वत. । चन्द्रकान्तमणेस्तेन
मृदुत्वं लोकविश्रुतम् ॥ ६७ ॥
स्फुटिकः
स्फटिकख गुणो योऽसौ स एवायाति दोषताम् | धत्त
स्वच्छतया छाया यस्ता मलवतामपि |॥ ६८ |॥
मरकतः
त्यज निजगुणाभिमानं मरकत , पतितोऽसि पै॑ीमरे
वणिजि । काचमणेरपि मौल्यं लभसे यत्तदपि ते श्रेय.
॥ ६९ |॥ केनासीनः →、 विक्रेतु
वा समभिलषितः केन वाऽस्मिन्कुदेशे । यस्मिन्वित्तव्यय-
भरसहो ग्राहकस्तावदास्ता नास्ति भ्रातर्मर्कतमणे त्वत्परीक्षा-
क्षमोऽपि ॥ ७० ॥ अासीत्पूर्वे विमलजलधौ र्मेण्डनं भूपतीना |
नारीणा च प्रबलमुकुटे काञ्चनेन प्रसङ्गात् | तश्र्त्रीबद्धः
कथमिदमहो कैाचखण्डेन सैीर्ध भिल्लीकण्ठे मरकतमणे
कामवस्था गतोऽसि ॥ ७१ ॥
माणिक्यम्
पौरस्तैयैर्दीक्षिणात्यैः स्फुरदुरुमतेिभिर्मित्र पाश्चात्यसधै-
रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि माणिक्यमेकम् !
यद्येतस्मिन्कथचित्कथयतिं कृपणः कोऽपि मालिन्यमन्ये
| प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिर सगिरन्ते ॥| ७२ ॥
कप्:
अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् ।
नृपतिर्वहते शिरसा तेनासौ न हैंनध्यैमणि, ॥ ७३ ॥|
शङ्खः
अन्तःकुटिलता वि॒िभ्रच्छङ्खः स खलु निष्टुरः, ।
हुंकरोति यदा ध्मातस्तदैव बहुं गण्यते ॥ ७४ ॥'उचै-
| रुच्चरति चिर झिल्ली वत्र्मनि तरु समारुह्य । दिग्व्यापिनि
| शब्दगुणे शङ्ख. सभावनाभूमिः ॥ ७५ ॥ कीटगृहं कुटि-
| लोऽन्तःकठिन क्षाराम्बुसभवः शूत्यः । शङ्ख' श्रीपति-
| निकटे केन गुणेन् स्थिति॒ लेमे ॥ ७६ ॥ जलनिधौ जननं
धवल वपुर्मुररिपोर॒पि पाणितले स्थिति. । इति समस्तगुणा-
| न्व॒ित शङ्ख मो कुंटिलत[ .हुदये न निवृारिता ॥ ७७ ॥
| ध्वनिरतिमधुरः शुचित्वमुचैर्जनिरपि शङ्ख नैदीनतस्तवाभूत् ।
अवगतमखिल बहिस्तवेदं कुटिलतर "पुनरन्तर न विद्म*
॥ ७८ ॥ क वाऽम्भोधौ जन्म क च वपुरिदं कुंन्दधवलं क
चावासस्थान कृतमहह विष्णोः करतलम् । क नीचानामासेये
परिणतिरिय चुम्बनविधावितीवायं शङ्खः करुणकरुण रोदिति
मुहु. ॥ ७९ ॥ तात, क्षीरनिधि. स्र्वसा जैलधिजा भ्राता
| सुरेशद्रुम. सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशा-
| दपि । धिक्कर्माणि स एव कम्बुरधुना पाखण्डकान्ताकरे
| विश्रान्तः प्रतिवासर प्रतिगृहं भैक्ष्येण कुक्षिभरि. ॥ ८० ॥
|| पाऽञ्चजन्यः
| सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधेगोंविन्दा-
ननचुम्बि सुन्दरतर पूर्णेन्दुबिम्बूाद्रुपु. । श्रीरेषा सहजा गुणा.
किमपर भण्यन्त एते हि यत्कौटिल्यं हृदि पाश्चजन्य भव-
तस्तेनातिलजामहे ॥ ८१ ॥ शङ्खा. सन्ति सहस्रशो जल-
निधेर्वीँचिच्छटाघट्टिताः पर्यन्तेषु लुठन्ति ये दलशतैः कल्मा-
षितक्ष्मातलाः । एक. कोऽपि स पाञ्चजन्य उदभूदाश्च यैधामा
सता य. सवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते॥ ८२ ॥
नद्यन्योक्तयः
| तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्राया. |
शुष्यन्त्या अपि युक्तं कि खलु रथ्योदकादानम् ॥| १ ॥
कतिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते । तटिनि
तटद्रुमपातनपातकमेकं चिरस्थायि ॥ २ ॥ यास्यति जलधर-
समयस्तव च समृद्धिर्लघीर्येसी भविता । तटिनि तटद्रुम-
पातनपातकमेक चिरस्थायि ॥ ३ ॥ कुरु गम्भीराशयता
१ नौकाव्यापारिण २ हीरकमणे ३ नीचे ४ भूवणम्
५ काचमणिना ६ सइ
१ अमूल्य २ कौटिल्यम् ३ नदीन सरित्पतिस्तस्सात्
४ कुन्दपुष्पवच्छुभ्रम् ५ भगिनी ६ लक्ष्मी ७ अल्पतरा.
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२३३
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति