सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

राजनीतिः
१५१
नाङ्कुरितं शैौर्य जयाय न तु केवलम् । अन्ययुक्त विर्षे
भुक्तं पथ्यं स्यादन्यथा मृति, ॥ ३९९ ॥ मृदुभिर्बहुभिः
शूर पुंभिरेको न बाध्यते । कपोतपोतकैरेकः श्येनो जातु
न बाध्यते ॥ ३६० ॥ विपक्षमखिलीकृत्य प्रतिष्ठा खलु
दुर्लभा । अनीत्वा पङ्कता धूलिमुदकं नावतिष्ठते ॥ ३६१ ॥
भ्रियते यावदेकोऽपि रिपुस्तावत्कुत सुखम् । पुरः क्लेिश्नाति
सोमं हि सैहिकेयोऽसुरद्रुहाम् ॥ ३६२ ॥ रित्ता. कर्मणि
पटवस्तृप्तास्त्वलसा भवन्ति भृत्या ये । तेषा जलैौकसामिव
पूर्णना रित्तता कार्यी ॥ ३६३ ॥ गन्तव्या राजसभा
द्रष्टव्या राजपूजिता लेोका । यद्यपि न भवन्त्यर्थीस्तथा-
प्यनथी विनश्यन्ति ॥ ३६४ ॥ अतितेजस्व्यपि राजा पाना-
सत्तो न साधयत्यर्थान् । तृणमपि दग्धुमशक्तो वडवाग्निः
सपिबत्यब्धिम् ॥ ३६५ ॥ अचिराधिष्ठितराज्यः शत्रु' प्रकृति-
ष्वरूढमूलत्वात् । नवसरोपणशिथिलस्तरुरिव सुकरः समु-
द्धर्तुम् ॥ ३६६ ॥ सप्रतिबन्धं कार्य प्रभुरधिगन्तुं सहाय-
बानेव । दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि
॥ 3 ६७ ॥ अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथवा
खर्ग. । उभयबलसाधुवादश्रवणसुखखैव नास्त्यन्तः
॥ ३६८ ॥ अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीव, ।
यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः |॥ ३६९ |॥
अतिगम्भीरे भूपे कूप इव जनख दुरवतारस्य । दधति
समीहितसिद्धि गुणवन्तः पार्थिवा घटकाः ॥ ३७० ॥ सैद-
र्णे च राजचिह्नानि । अभिषेकः
पटबन्धो बालध्यजर्न ब्रणस्यापि ॥ ३७१ ॥ यदि तव
हृदयं विद्वन्सुनयं स्खमेऽपि मा स्म सेविष्ठाः । सचिवजिर्त
षण्ढजितं युवतिजिर्त चैव राजानम् ॥ ३७२ ॥ अाश्रयि-
तव्यो नरपतिरर्जयितव्यानि भूरि वित्तानि । अारब्धव्यं
वितरणमानेतव्य यशोऽपि दशदिग्भ्य. ॥| ३७३ ॥ असमैः

  • समीयमानः समैश्च परिहीयमाणसत्कारः | धुरि यते न

युज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३७४ ॥ अनुया-
तानेकजनः परपुरुषैरुह्यतेऽख निजदेहः । अधिकारस्थ.
पुरुषः शव इव न शगृणोति वीक्षते कुमतिः ॥ ३७५ ॥ स
क्षत्रियस्राणसहः सता यस्तत्कार्मुकं कर्मसु यस्य शक्तिः ।
वहन्द्वयीं यद्यफलेऽर्थजाते करोत्यसस्कारहतामिवेोत्तिम् |
ll ३७६ ॥ क्षतात्किल त्रायत इत्युदग्र क्षत्रस्य शब्दो
भुवनेषु रूढः । रंज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशम-
लीमसैर्वा ॥ ३७७ ॥ डैत्युच्छ्रिते मन्त्रिणि पार्थिवे च
त्रेिष्टम्य पादावुपतिष्ठते श्रीः । सा स्त्रीस्खभावादसहा भरस्य
९ सतामवर्न रक्षणम् २ दुष्टशासनम् ३ अत्युन्नते.
तयोर्द्वयोरेकतर जहाति ॥ ३७८ ॥ यः काकिनीमप्यपथ-
प्रपन्ना समुद्धरेन्निष्कसहस्रतुल्याम् । कालेषु कोटिष्वपि
मुक्तहस्तस्त राजसिंहं न जहाति लक्ष्मी• ॥ ३७९ ॥ उपे-
क्षित क्षीणबलोऽपि शत्रु ~ ग्रमाददोषात्पुरुषैर्मदान्धै• ।
साध्योऽपि भूत्वा प्रथम ततोऽसावसाध्यता व्याधिरिव प्रयाति
॥ ३८० ॥ मित्राणि शत्रुत्वमिवानयन्ती मित्रत्वमप्यवशाच्च
शत्रून् । नीतिर्नयत्यस्सृतपूर्ववृत्तं जन्मान्तर जीवत एव पुंस,
॥| ३८१ ॥ सन्मन्त्रिणा वर्धयते नृपाणा लक्ष्मीमहीधर्मयश,-
समूह । दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीमहीधर्मयश.-
समूहः ॥ ३८२ ॥ नियुक्तहस्तार्पितराञ्ज्यभारास्तिष्ठन्ति ये
सौधविहारसारा । बिडालवृन्दार्पितदुग्धपूरा. खपन्ति ते
मूढधियः क्षितीन्द्रा. ॥ ३८३ ॥ सुहृदामुपकारकारणां-
द्विषतामप्यपकारकारणात् । नृपसश्रय इष्यते बुधैजैठर को
न बिभर्ति केवलम् ॥ ३८४ ॥ विर्षंमोऽपि विगैाह्यते नयः
कृ॑ततीर्थ पयसामिवाशयः । स तु तत्र विशेषदुर्लभ. सैदु-
पन्यस्यति कृ॑ल्यवत्र्म यैः ॥ ३८५ ॥ द्विषतामुदय सुमे-
धसा गुरुरसैवैन्ततर. सुमर्षण 1 न महानपि भूतिमिच्छता
फलसपत्प्रवण* परिक्षयः ॥ ३८६ ॥ अचिरेण परस्य
भूयसी विपरीता विगणय्य चात्मन । क्षययुक्तिमुपेक्षते
कृती कुरुते तत्प्रतिकारमन्यथा ॥ ३८७ ॥ अनुपालयतामु-
देष्यती प्रभुशत्ति द्विषतामैनीहया । अपयान्त्यचिरान्मही-
भुजा जननिर्वीदभयादिव श्रियः ॥ ३८८ ॥ क्षययुत्तमपि
खभावर्ज दधत धैीँम शिवं समृद्धये । प्रणयन्त्यनपायमु-
त्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ ३८९ ॥ प्रभवः खळु

  • ँकोशदएँर्डयो. कृतर्पञ्चैाङ्गविनेिर्णयो नयः । स विधेयपदेषु

दक्षता नियतिं लेोक इवानुरुध्यते ॥ ३९० ॥ अभिमान-
वतो मनस्विन. प्रियमुचै. पदमारुरुक्षतः । विनिपात-
निवर्तनक्षम मतमालम्बनमात्मपैौरुषम्॥ ३९१ ॥ विपदो-
ऽभिभवन्त्यविक्रर्म रहयत्यापदुपेतमायतिः | नियता लघुता
निरायतेरगरीयान्न पदं नृपश्रियः ॥ ३९२ ॥ चश्चले वसु
नितान्तमुन्नता मेदिनीमपि हरन्ल्यरातयः । भूधरस्थिरमुपे-
,१ दुर्वोधोऽपि; पक्षे,-दु'प्रवेशोऽपि. २ विगृह्यते, पक्षे,-प्रवेिश्यते
३ कृताभ्यासद्यपाय सन्; पक्षे,-कृतञ्जलावतार सन् ४ देश*
कालाद्यविरुद्धम्, यथाथैमिल्यथै , पक्षे,-गतैग्राहृपापाणादिरहितम्
५ सधिविग्रहादिकार्यम्; पक्षे,-ख्लानादिकम्- ६ यथा केचित्कृत-
दीर्थे पयसेि गम्भीरेऽपि प्रवेष्टार- सन्ति, तीथैकरसूतु विरल , तद्वन्नी-
| तावपि निगूढमपि तत्त्वं सति वत्त्करि बोद्धार* सन्ति, वत्ता तु न
सुलभ इत्यधै.. ७ अल्यन्तदुरन्तः• क्षयोन्मुख इल्यथैः < फलसि-
यद्धयु मुखः. ९ अनुत्साहेन. १० , क्षात्रं तेजः; पक्षे,-प्रकाशमू
११अर्धराद्द्शेि.. १२ तुरगसैन्यम्. १३ *सहायाः साधनोपाया विभागो
देशकालयोः 1 विनिपातः प्रतीकारः सिद्धिः पश्चाङ्ग इच्यते ॥' इति.