८६
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
ब्रूतामसता सता च वच्च॒सा वत्र्मातिगं चेष्टितम् ॥ १३ ॥
श्रोर्तृन्मूकयति ब्रुवन्स्थ॒िरैतर्म कुर्वन्नमीषा मनो निर्बीष्पः
परबाष्पकृत्परदृशामेकाश्रयो नान्यदृक् । यस्त्यक्ताङ्गविकम्पन,
प्रचलयन्नित्यं सता मस्तक क्षीर श्रोतृषु मुख्यमात्मनि
गुर्ण धत्त स वत्तोत्तम. ॥ १४ ॥ तद्वत्ता सदसि ब्रवीतु
वचर्न यच्छृण्वता चेतसः प्रेोछैासं रँसपूरणं श्रवृणयो-
रक्ष्णोर्विकासश्रियम् । क्षुन्निद्राश्रमदुःखकालगतिहृत्र्केार्या-
न्तरग्रस्मृति प्रोत्कण्ठामनिशं श्रुतौ वितनुते शोक विरा-
मादपि |॥ १५ |॥
मैौनगुणाः
अात्मनो मुखदोषेण बध्यन्ते शुकसारिका. बकास्तत्र
न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ १ ॥ रूपवाश्चापि मूखेॉ-
ऽपि गत्वा च विपुला सभाम् । संरक्षेच्च स्खिका जिह्वा भार्या
दुश्चारिणी यथा ॥ २ ॥ सैवायत्तमेकान्तगुण विधात्रा विनि-
र्मितं छैीदनर्मज्ञतायाः । विशेषतः सर्वविदा सैमाजे विभूषर्णे
मैौनमपण्डितानाम् ॥ ३ ॥ कोलाहले काककुलस्य जाते
विराजते कोकिलकूजितं किम् । परस्परं संवदता खलाना
मैौन विधेय सततं सुधीभिः ॥ ४ ॥
स्थानमाहात्म्यम्
नैर्कैः खस्थानमासाद्य गजेन्द्रमपि कर्षति । स एव
प्रच्युतः स्थानाचैछैनापि परिभूयते ॥ १ ॥ किंचिदाश्रयसै-
योगाद्धत्त शोभामसाध्वपि | कान्ताविलोचने न्यस्तं मली-
मसमिवाञ्जनम् ॥ २ ॥ कुस्थानस्य प्रवेशेन गुणवानपि
पीङयते । वैश्वानरोऽपि लोहस्थ. कैाँरुकैरभिहन्यते ॥ ३ ॥
पैर्दंस्थितस्य पद्मस्य मित्रे वरुणभास्करौ । पैर्देच्युतस्य
तखैव के॒शदाहकरावुभैौ ॥ ४ ॥ रा॒जा कुलवधूर्विप्रा मत्रि-
णश्च पयोधराः ' स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नरा
नखाः ॥ ५ ॥ स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा
मराः । इति विज्ञाय मतिमान्खस्यानं न परित्यजेत् ॥ ६ ॥
पात्रविशेषे न्यस्तं गुणान्तर व्रजति शिलैर्पमाधातुः । जलमिव
समुद्रशुक्तौ मुतैफलता 'र्पयोदस्ख ॥ ७ ॥ अतिमात्रभाख-
रत्वं पुष्यति भानो परिग्रहादनल. । अधिगच्छति महिमानं
चन्द्रोऽपि निशापरिगृहीतः ॥ ८ ॥ प्रायो यत्किंचिदपि
१ मूकान्करोति २ अचलम्, तटस्थमिति यावत् ३ प्रकर्षेणो
छास विकासम् ४ रसानां शृङ्गारादीना पूरणम् ५ अन्यकार्य-
विस्मृतिम् ६ स्वस्याधीनम् ७ पिधानम् < मूखैताया ९ सभा-
याम् १० मकर् थु१ भषकेण १२ लोहकारै १३ पद =स्थानम्,
जलाशयम् १४ कैौशलम् १५ मौक्तिकत्वम् १६मेधस्य
प्राप्नोत्युत्कर्षमाश्रयान्महतः | मत्तेभकुम्भतटगतमेति शूङ्गा-
रता भस्म |॥ ९ |॥ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च
नारी च ] पुरुषविशेषं प्राप्सा भवन्ति योग्या अयोग्याश्च
॥ १० ॥ अाश्रयवशेन सततं गुरुता लघुता च जायते
जन्तोः । 'विन्ध्ये विन्ध्यसमानाः करिणो · बत दर्पणे
लघवः ॥ ११ ॥ जानामि नागेन्द्र तंव प्रभाव कण्ठे स्थितो
गजैसि शकरस्य । स्थान प्रधान न बल प्रधान स्थाने स्थितः
कापुरुषोऽपि शूरः ॥ १२ ॥ उभौ श्वेतौ पक्षेौ चरति गगने-
ऽवारितगति. सदा *मीन भुङ्के वसति सकलः स्थाएँर्गुशि-
रसि । बके चान्द्रः सर्वो गुणसमुदयः किचिदधिको गुणाः
स्थाने मान्या नरवर न तु स्थानरहिताः ॥ १३ ॥ सिंह-
क्षुण्णकरीन्द्रकुम्भगलितं रत्तात्तमुत्ताफर्ले कान्तारे बदरी-
धिया द्रुतमगाद्भिल्लख पत्नी मुदा । पाणिभ्यामवगृह्य शुछ-
कठिनं तद्वीक्ष्य दूरे जहावस्थाने पततामतीव महतामेता-
दृशी स्याद्भतिः ॥ १४ ॥
सत्संगतिप्रश्र्शसा
महानुभावससर्गः कस्ख नोन्नतिकारकः । रथ्याम्बु
जाह्नवीसङ्गात्रिर्देशैरपि वन्द्यते ॥ १ ॥ महाजनस्य संसर्गः
कस्य नोन्नतिकारक, । पद्मपत्रस्थितं वारि धत्त मुक्ताफलश्रि-
यम् ॥ २ ॥ महानुभावससर्गः कख नोन्नतिकारकः । हरि-
हस्तगतः शङ्खः पवित्रः प्रथितो भुवि ॥ ३ ॥ मलयाचलग-
न्घेन त्विन्धनं चन्दनायते । तथा सज्जनसङ्गेन दुजैनः सज्ज-
नायते ॥ ४ ॥ वीणावंशाश्रया तुम्बी चुम्बत्युचैः कुचैौ स्त्रियः !
पिबत्यनायैसयोगाद्रत्तं नक्तंचरी यथा ॥ ५ ॥ चन्दर्न
शीतलं लोके चन्दनादपि चन्द्रमाः | चन्द्रचन्दनयोर्मध्ये
शीतला साधुसंगतिः ॥ ६ ". दर्शनं पुण्र्य तीर्थ-
भूता हि साधवः । कालेन तीर्थे सद्यः साधुसमा-
गमः ॥ ७ ॥ करोति निर्मलैधारस्तुच्छस्यापि मैहाधैताम् ।
अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥८॥ हीयते
हि मतिस्तात हीनैः सह' समागमात् । समैश्च समतामेति
विशिटैश्च विशिष्टताम् ॥ ९ ॥ मन्दोऽप्यमन्दतामेति संसर्गेण
विपश्चितः । पङ्कच्छिदः फैलस्यव निकर्षेर्णीाविल पैयः ॥ १० ॥
कीटोऽपि सुमन.सङ्गादारोहति सता शिरः | ऊँश्मापि
याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ११ ॥ काचः काश्चन-
संसर्गौद्धत्त मैरैकर्तीर्युतीः । तथा सत्संनिधानेन मूखे
२ विन्ध्यपर्वते, २ मत्स्यान्, पक्षे,-मीनराशिम् ३ तरुशैलादय- ,
पक्षे,-शिव ४ देवै', '१ अाश्रय ६ महामूल्यत्वम् ७ कतकफलस्येव.
< कळुषम् °8 उदकम् १० पाषाण ११ मरकतसंबन्धिनी
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१०१
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति