३७२ सिद्धान्तशेखरे शतशरशिरः शरब्रयशिरः प्रापि यदृत्तं तत् ग्राहकस्य छादकस्य वर्गे मार्गे भवति । तत्स' सक्तां ग्राहकमार्गात्मके हतदृत्ते लग्नां मध्यकेन्द्रात् युक्तितः यथा भुजकोटिकणः प्रागुक्तवत् सम्पद्यन्ते तथा श्रुतिं कर्णामपि नयनयेत् किमर्थमित्याह-चन्द्रभान्वोः इष्टग्रा साद्यवगमविधिज्ञप्तये इष्टसमये ग्रहण स्वरूपाव्यवगमप्रकारज्ञानायेत्यर्थः । अत्रोपपत्ति:=स्पर्शमध्यमोक्षशराग्रेषु त्रीन् बिन्दून् ग्राहकमार्गस्थान् विज्ञाय ग्राहकमार्गे च वृत्तचापखण्डं स्थूलं परिकल्प निस्पृग्वृत्तस्य केन्द्र मध्यवयसूत्र युतिरवानीतमिति प्रसिद्धम् । " अस्माच्च केन्द्रात् । ग्राहकबिम्बध्या सार्धेन यदृत्त- सुत्पाद्यते तस्मिन् निश्चितमेव समस्तेऽपि ग्रहणसमये ग्राहक बिम्बकेन्द्र धमतीति शायाभमणवत्तवत् प्राचीननां प्रतौतिः । तत्र स्पर्शमध्यभोक्षविन्दुषु ग्राहको गमिष्यति परन्तु तच्चाषएव ग्रहको गच्छेदित्यत्र न काचिद्युतिः ॥३३॥ अथेष्टग्रासे कर्णदाने विशेषमाह शालिनीवत्तेन देयः (१)कर्णः प्राशू खो गृह्यमाणे नीहारांशोर्मुच्यमाने तु पश्चात् । संसक्ताग्रो (२)ग्राहकाध्वन्यभौष्ट यासं जातं भास्करस्यान्यथा तु ॥३४॥ ठळमाणे ग्रासोपचयशालिनि नीहारां मध्यग्रहणात् प्राक्कालिक इत्यर्थ: नीहारांशोश्चन्द्रस्य अभीष्टग्रासं ज्ञातुं ग्राहकाध्वनि पूर्वोल्लिखितकमार्गे संसताग्रः कर्णः प्राङ खो देयः। मुच्यमाने मोक्षमभिलषति पश्चात् पश्चिमाभि सुस्रो देयः । भास्करस्य रवेरन्यथा टुह्यमाणस्य ग्राहकमगं से सतयकर्णा: पश्चिमाभिमुखो देयो मुच्यमानस्य प्रामुख देयः । कथमित्थह अभीष्टग्रासं ज्ञातं इष्टग्रासस्य परिलेखर्थमित्यथः । (१) भव भू. पुस्तकें, दि. पुस्तके च “देयं कथं:” इति पाठः।। (२) अत्र मू. पुलके “ग्रहकाध्वान्यभीष्ट••• ” इसि पाठः।
पृष्ठम्:सिद्धान्तशेखरः.pdf/४२८
दिखावट