चन्द्रग्रहणाध्यायः ३५१ अत्रोपपत्तिः । ब्राह्मस्फुटसिद्धान्तस्य रविशशिभुक्तो भव ११ दश १० गुणे नखैः २० स्वरजिने २४७ ह्°तं माने । तत्वा २५ ४ ८ गुणितभृतयोर्विवरं घष्टा ६० हृतं तमसः ”’ अस्यैवानुरूपमिदं थोपतेः प्रकारान्तरमिति तत एवावगन्तव्या । ब्रह्मस्फुटसिद्धान्तोन्नय समोबिम्ब ८ चंग २५ रग _२ चंग - ५ रग = - , ६° १५ १२ अत उपपन्नं बाणैर्लभ्यामित्यादि श्रीपतेः कथनमिति । भास्करचर्यातं च -- ‘भानोर्गतिः स्वदश १० भागयुताऽधेतो वा । बिस्बी विधो जि २ गुणिता युगशैल ७४ भत ।” इति रविचन्द्योर्बिम्बकलानयनं तथ ‘भानोर्गतिः शर ५ बता रवि १२ भिर्विभक्त चन्द्रश्च लोचन २ गुणा तिथि १५ भाजिता च । लब्धान्सरं भवति वाऽवनिभाप्रमाणम् इति भूभबिस्वानयनं च श्रीपत्यनुरूपमेवेति सिद्धान्त शिरोमंणिवासनाभाष्योक्तं सर्वसुपपस्यादिकं विलोकनीयं किमत्र पृथगौरवेण ॥ ८॥
अथ चन्द्रविक्षेपनयनं ग्रासप्रमाणं चाह वसन्ततिलकावृत्तेन- पातोनितस्य(१) समलिप्तकशीतरश्मे जवा कृतेषु ५४ गुणिता त्रिगजौं ६८३ भक्ता। क्षेपो भवत्यथ (२) पिधानपिधेयबिस्ब योगार्धमूनममुना स्थगितं वदन्ति ॥१०॥ समलिप्तक-शीतरश्मेः रविण समं समकलस्य चन्द्रमसः पातोनितस्य राश्यादिना पातेन वर्जितस्य जीौवा भुजज्या तेषुभिश्चतुः पञ्चाशता ५४ गुणित त्रिगजचूंभिखशैत्यधिकषट्शतेन ८८२ भक्ता सती पश्चन्द्रशरो भवति । अथ पिधानपिधेयबिम्बयोगार्ध ग्राहकग्राह्ययोर्बिस्वयोर्योगार्ध चन्द्रग्रह णे (१) अव भू. पुस्तक, डि. पुस्तके च ‘‘सतोनितस्" इति पाठः । (२) अभ सू. प्रसकदि. पुसते च ‘‘विधानविषयविखयोगार्धमूनममुना सगतिं वदन्ति’ इति सदृश एव पाठः ।