-- - - - - - - - - ० = ० - ० ० = १ ---सिद्धान्तशेखरे २७८ विधान्सरेण उत्तलक्षणं वदन् द्रुतविलम्बितमाह क्षितिजखचरयोरथवाऽन्तरे समय उन्नतसंजित उच्यते । तमपि चापरपूर्वकपालयो र्दिवसशेषगतं च विदुर्बधाः ॥६८॥ अथवा क्षितिजग्रहस्य चान्तरे यः समयः स उन्नतसंज्ञित उच्यते तदुन्नतसंज्ञ कालमपरपूर्वकपालयोः क्रमेण दिवसस्य शेषं गतं च बुध: जगुः । पश्चात्कपाल उन्नतं दिवसशेषं वदन्ति पूर्व कपाले दिवसगतमिति वदन्तीत्यर्थः । • वासना स्प्रष्टा ॥३८॥ P = १ । अधुना विषुवच्छायां तत्कथं च नेतुं द्रुतविलम्बितमाह । - अजतुलादिगतस्य विवस्खतो दिनलप्रभयोर्युतिरञ्चिता।
- भवति वैषुवती निजदेशजा
तदिन(१)वर्णयुतेश्च पदं श्रुतिः ॥६६॥ अजादिगतस्य तुलादिगतस्य च भानोर्ये मध्याह्नप्रभे तयोश्छाययोर्युतिः साऽर्धिता निजदेशजा वैषुवती विषुवह्निमध्याह्न सम्बन्धिनौ प्रभः भवति । तस्याश्छायाया थानस्य -दशवस्य त्रयौ - व तयोर्युतिर्यत्पदं सा वैषुवती श्रुतिः विषुवकणं इत्यर्थः । एतदुक्तं भवति-सापक्रमस्यार्क स्य यदा मेषतुलयोः प्रथम कलाप्रवेशः तद्दिनं विषुवद्दिनमुच्यते तस्मिन्दिने पूर्वोक्तवदिशौ ज्ञात्वा प्रागुक्तोयः साधिते शरोश्शाये दक्षिणोदग्रेखायां यावत्यौ तयोर्युगार्ध विषुवच्छायेत्यर्थः । विषुवच्छायाञ्चदशकवर्गयोगमूलं विषुवत्कः पलकर्णोऽक्षकथं इति पर्यायाः । वासना स्पष्टा ॥३८॥ - - - - - - - - - - ---(४)-"पत्र-तदिन युके- ऊँशिति-भू. प्रतर्क . दि. पुस्तकं च सदृश एव पाताः ।