सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशेखरः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशेखरे १८४ शैनें केन्द्रं पूर्वश्लोके शघ्रोच्चादित्यारभ्य तत्रावशेष इत्यन्तेन यच्छन्नकं स्फुटीकरणमुक्तं तदिह शैघ्रकेन्द्रशब्देन यदृते तस्मिन् शीघ्रकेन्द्रं मीनजद मीनमारभ्य मेषपर्यन्तमतिशयचला अतिशौनेत्यर्थः । तथा शौनकेन्द्रं गोधष्टाद सति पृषकुभादौ शीघ्रा । मिथुनमकरादौ तु नैसर्गिकी निसर्गसिद्ध मन्द- युद्धे गतिरित्यर्थः । कफ्र्यायधं धनुषोऽन्यखण्डे मन्द गतिः । चाषस्य । कुलीरस्य कंकटकस्य छन्दोभङ्गभयात् हुखोक्तिः । कुलिरस्यान्थ शकलेऽतिमन्दा गतिः प्रदिष्टा इतरत्र विकला गतिरिति द्रष्टव्यम् । इति ग्रहणमष्टधा गतिरस्ति । तदुक्तं सूर्यसिष्ते--- वक्रानुवक्त विकला मन्द मन्दतरा समा । शीघ्रा शीघ्रतरा चेति ग्रहणमष्टधा गतिः ॥ इति ॥३० इदानीं कुजगुरुशननामुदयास्तमयकेन्द्रपरिज्ञानार्थं वसन्ततिलकमाह बस्खशिखभि २८ नृगकुभि १४ नैगचन्द्रमोभिः१७ प्राच्यङ्गमः क्षितिजजौक्शनैश्चराणाम् । (१)शौभ्राख्यकन्द्रजलवैर्भगणांशशधै रेभिः पुनर्नियतमस्त(२)मयः प्रतौच्यम् ॥६१॥ वखखिभिः अष्टाविंशत्या २८ भागैः शस्राख्यकेन्द्रजलवैः शंखाकेन्द्रभागैः क्षितिजस्य प्राच्यामुदयः प्रायुङ्कमः । युगकुभिश्चतुर्दशभिः १४ शीघ्रकेन्द्रभागैः जीवस्य नगचन्द्रमोभिः सप्तदशभिः (७ शीघ्रकेन्द्रांशैः शनेः प्रायुङ्गमः प्रायझमः । प्रायुङ्गमोत्थैव पश्वादवमय इति ज्ञायते । भगणांशश्शुद्धेः मण्डलांशकैरेभिः स्वोदयभागैः नियतं प्रतीच्यामस्तमयः । उक्त एव स्खदयभागश्चांशेभ्यः ३६० शयाः कार्याः। तत्र शिष्टाः स्खास्तमयभागाः। तत्रातीतानागतदिनज्ञानं “केन्द्रद्युभुश्च पुनरपि हरणे यातयेयान्यहनी’त्युक्तन्यायेन कार्यम् । A = (१) मू. पुस्तके "पत्राख्यजजपैर्भागणं"r" इति तय- (२) अत्र ‘मक्षमयं' इति च पाठः ।।