मध्यमाधिकारे कालमानाध्यायः ૨૭ म्लेच्छास्ते व्यापादिता यस्मिन् काले विक्रमार्केण स कालो लोके शकेन्द्र काल इत्युच्यते।' इति भट्टोत्पलोत्त: । य एव विक्रमस्यान्तः स एव शालिवाहनादिरित्युच्चावचजनप्रसिद्धम् । अत्राङ्कानां वामतो गतिः । एकस्थानाद्दशकस्थानादिविन्यासस्य वामक्रमेणैवाद्यैः सङ्केतितत्वात् । एक एव द्वद्यादिनवावसानावृत्तिभिद्वित्त्वादिसङ्ख्यां लभते । एवं नवैवाङ्काः सङ्केतिताः । पुनरेक इव दशगुणोत्तरो दशकशतसहस्रादिसङ्ख्यां लभते । यत्र नवावसानावृत्त एको विन्यस्यते तदेकस्थानम् । यत्र नवान्ताङ्कावृत्त एव दशगुणोत्तरो विन्यस्यते तद्दशकादिस्थानमित्याहुः । स्थानानन्त्यात् सङ्ख्याया आानन्त्यम् । स्थानानां योऽवश्यं मन्तव्य उत्तरावधिस्तस्य पराद्धं इति संज्ञा कृता । आचार्येण परार्द्धस्याष्टादश स्थानान्युक्तानि । क्वचिच्छात्रान्तरेऽधिकान्युक्तानि। शून्यं नामाभावस्तदपि सङ्ख्यान्तर्गतमेव सङ्ख्याद्योतकत्वात् । एक एव सहस्रसङ्ख्यां कथं द्योतयेद्यदि' एकदशशतस्थानेष्वङ्कानामभावाच्छून्यनिवेशो न स्यात् । नन्वेकादिस्थानस्थितानामङ्कानामभावे यद्वच्छून्यनिवेशेन लक्षादिसङ्ख्यावबोधस्तद्वत्पराद्धदिस्थानामभावे शून्यनिवेशनेनापि स्यात् ।। *युक्तश्च वामक्रमाद्दक्षिण इति चेत् किमत्र वक्तव्यम् । उत्तमेवात्र बीजगणितं व्याख्यातवद्भि:* कृष्णदैवज्ञैरुक्तरावधेरभावात् *परिच्छिन्नसङ्ख्यासु तत्सत्वेऽपि तस्यानियतत्वात् प्रथमावधेस्तु नियतत्वादिति । उत्तरावधेः प्रदक्षिणक्रमेणैव द्वितीयादिस्थानानां संज्ञास्त्विति तत्रापीदमेवोत्तरम् । अभ्यर्हितस्थानस्थस्य पङ्क्तौ पूर्वनिवेशस्तदधःस्थितस्थानस्थानां सव्यक्रमेण स्थापनमुचितं, लोकेषु तथा दृश्यते तत्वेकस्थानाद्वामक्रमेण दशकादिस्थानविन्यासेनोपपद्यते । अथवा परमाण्वाद्यधिकृत्य द्वयणुकादिसंज्ञाः क्रियन्ते तद्वदेकस्थानमधिकृत्य दशकादिस्थानसंज्ञाकरणे न कश्चिद्दोषः । एकादिस्थानसाध्यत्वादृशकस्थानादीनामुत्तरोत्तरसङ्ख्यायाँ पूर्वपूर्वसङ्ख्याया: सत्वात्। तस्मादेकमब्जं नवाबुदानि सप्तकोट्यः प्रयुतद्वयं लक्षनवकं चत्वार्ययुतानि सहस्रसप्तकं शतमेकं सप्त दशकाः नव चेति गताः शकादौ । ततः शकवर्षाण्येतेषु योज्यानि ॥ २८-२९ ॥ इदानी बार्हस्पत्यं मानुषमानञ्चाह । बृहस्पतेर्मध्यमराशिभोगात् संवत्सरं सांहितिका वदन्ति' । ज्ञेयं विमिश्रन्तु मनुष्यमानं मानैश्चतुर्भिव्यवहारवृत्तेः ॥ ३० ।। १. द्योते ख पु० ॥ २. युक्ता ख पु० ॥ ३. तविद्धि: ख पु० ॥ ४. परिक्षिण ख पु० । ५. अत्र क्षपक पद्यम् । ‘‘कल्पादितो मध्यमजीवभुक्ता ये राशयः षष्टिहृतावशेषाः । संवत्सरास्ते विजयाश्विनाद्या इतीज्यमान किल संहितोत्तम् । तथा च श्रीपतिः । 'कल्पादि भुता गुरुराशयो ये संवत्सराः स्युविजयादयस्ते । बभाषिरे सांहितिका हि पूर्वे वर्षाणि तस्याविनपूर्वकाणि ॥' ( सि. शे. १ अ. ४३ श्लो० )
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/72
दिखावट