पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ सिद्धान्तशिरोमणौ ग्रहगणिते युगमहीधरवेदवर्षेषु' शतगुणितेषु गतिप्रारभाभिधानात् कल्पभगणादीनामानर्थक्यम्। तस्मात् कल्पादावेव ग्रहगतिप्रारभ्भः समुचित इति । यथेच्छाकाले* ग्रहासत्वं दोषस्तथा प्रमाणकालेऽपि ग्रहासत्वं दोष इति सामान्यत उक्तम् । तेष्वसत्सु ये तच्चारचिन्तां कुर्वन्ते ॐ तेभ्यो महद्भ्यो नम इति । तथा चाह श्रीपतिः*ज्योतिग्रहाणां विधिवासरादौ सृष्टिलयस्तद्दिवसावसाने। । यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मते नः खलु कल्प एव ॥ इति । वस्तुतस्तु युगकुदिनादिप्रमाणं युगभगणादिफलमिच्छेष्टाहिर्गणाद्येव । तत्र सावयवेन गुणने भजने च शिष्यक्लेशो मा भूदिति भगवता पडूजवनविकासकेन सूर्यण मन्दशीघ्रोच्चपातभगणाद्यं सहस्रेण सवर्णयित्वा पठितमिति ग्रहासत्वदोषाशङ्काऽपि नास्ति । तस्मान्महाकल्पाद्य ग्रहानयनं' कुर्वते तेषामेवेदं दूषणमित्यलम् । ब्रह्ममानकथनं सङ्कल्पाद्युपयोगितया प्राजापत्यमानवत्। शास्त्रान्तरे प्राजापत्यमानमभिहितम्। 'मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्' इति ॥ २७ ॥ इदानी वर्तमानदिनगतमाह । याताः षण्मनवो युगानि भमितान्यन्यद्युगाङ्घ्रत्रयं नन्दाद्रीन्दुगुणास्तथा शकनुपस्यान्ते कलेर्वत्सराः । गोद्रीन्द्वद्रिकृताङ्कंदस्रनागगोच्चन्द्राः १९७२९४७१७९ शकाब्दान्विताः । सर्वे सङ्कलिताः पितामहदिने स्युर्वर्त्तमाने गताः ॥ २८ ।। स्वायम्भुवो मनुरभूत् प्रथमस्ततोऽमी स्वारोचिषोत्तमञ्जतामसरैवताख्याः । षष्ठस्तु चाक्षुष इति प्रथितः पृथिव्यां वैवस्वतस्तदनु सम्प्रति सप्तमोऽयम्'।।॥२९॥ वा० भा०-श्लोकद्वयं स्पष्टार्थम्। इति ब्रह्ममानम् ॥ २८-२९ ॥ वTo वा०-वर्त्तमानद्युयातं मनूनाञ्च संज्ञां वृत्तद्वयेनाह याताः षण्मनव इति । शकनृपस्यान्ते। शकाश्च ते नराश्च तान्पातीति शकनृपो विक्रमादित्यः । यथा मृगप्राणहरे सिंहे मृगपतिप्रयोगस्तथा शकनृपप्रयोगो विक्रमादित्ये ।। शकनामानो १. धरद ख पु० । २. ग्रंथेच्छा ख पु० । ३. कुर्वते ख पु० । ४. सि० शे० १ अ० २१ श्लो० । ५. नयने ख पु० । ६. सू० सि० १४ अ० २१ श्लो० । ७. अत्र श्रीपतिः । “स्वायम्भुवाख्यो मनुराद्य आसीत् स्वारोचिषधोत्तमतामसाख्यौ । जातौ ततो रौवतचाक्षुषौ च वैवस्वतः सम्प्रति ससमोऽयम् । ( सि. शे. १ अ. २४ श्लो०) अन्येषां नामानि पुराणवचनाज्ज्ञेयानि । तथा च तद्वचनम्। 'सार्वाणदक्षसावर्णिब्रह्मसावणिकस्ततः । धर्मसावर्णिको रुद्रपुत्रो रौच्यश्य भौत्यक: ।'