सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/57

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
सिद्धान्तशिरोमणौ ग्रहगणिते

[ तस्मादिति ] यस्मादिदं प्रशस्तं वेदाङ्गम् तन्मध्येऽभ्यहितञ्च तस्मादिदं पठनीयम्। 'अष्टमे वर्ष ब्राह्मणमुपनयेत्' 'एकादशे क्षत्रियम्'। द्वादशे वैश्यमिति। उपनयन नाम गुरुसमीपे नयनम् । गुरुसमीपानीतो माणवकः प्रयोजनमपेक्षते किमर्थमहमानीतोऽस्मि इति । ‘स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिरध्येतारमपेक्षते । अतः स्वाध्यायविधिस्तादृशं माणवकं गृहीत्वा चरितार्थो जातः न शूद्रादीन् गृह्णाति । ‘मन्त्रब्राह्मणयोर्वेदनामधेयं,' षडङ्गमित्येके । ‘साङ्गो वेदोऽध्येतव्यो ज्ञातव्यश्चेति', 'द्विजानामेवाध्ययनं प्राप्तम् । तस्मादध्ययनीयमेतदित्येवाचार्यस्य वक्तुमुचितम् । तत्र द्विजैरिति यदुच्यते तच्छूद्रादिनिवृत्यर्थमिति वासनाभाष्यकारेण सम्यक् परिसंख्यापरं व्याख्यातम् । विधि-नियमपरिसंख्या-लक्षण भट्टपादैरुक्तम् ।

विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्ते परिसंख्येति कीत्यते ॥

चयने मृदाहरणार्थमश्वो गर्दभोऽप्यस्ति तत्र रशनाग्रहणे *ब्राह्मणेन मन्त्रो' नियोजितः' । 'इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादत्त इति । इदमत्रोदाहरणं परिसंख्यायाः कृतम् । तत्र यावत्पर्यन्तं लिङ्गापरपर्यायसामथ्येन मन्त्रोऽश्वर-'^ शनाग्रहणेन प्राप्नोति तावत्पर्यन्तं शीघ्रप्रवृत्तया ६ श्रुत्या मन्त्रोऽश्वरशनाग्रहणे नियोजितः तस्मादयमपूर्वविधिरेव फलतः परिसंख्येत्युच्यते । तदुक्तम्-

‘°अपूर्वो विधिरेवायमतो मन्त्रस्य निश्चितः ।
परिसंख्या फलेनोक्ता न विशेषः पृथक्श्रुतेः ॥

इति । बिलम्बेनापि प्राप्स्यतोऽर्थस्य< विधानं व्यर्थमिति फलतः परिसंख्येत्युच्यते । पुनः श्रुतेः फलं त्वन्यनिवृत्तिरेव । तदप्युक्तम् । “न गद्दीभाभिधानीतः फलमन्यन्निवर्त्तनादिति ।” तस्मान्न किञ्चिद्विरुद्धम् । पुण्यमिति यदुच्यते तच्चतुर्द्दशधर्मविद्यास्थानान्तर्गतत्वात्' । उक्तञ्च-


पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्द्दश ॥

वेदोऽखिलो धर्ममूलं * *स्मृतिः शीले च तद्विदाम् ।
अाचारश्चैव साधूनामिति गौतमोत्तेश्च ।


१. द्विजानमेव ख० पु० । २. ब्राह्मणोन ख पु० । ३. मंत्र ख पु० । ४. नेयोजि’ ख पु० । ५ रसना क पु० । ६. प्रवृतया क पु० । ७. अपूर्व क ख पु० । ८. प्राश्यती ख पु० । ९. गताचात् ख पु० । १०. तद्विदां च स्मृतिशीले क० ख पु० ।