पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/55

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
सिद्धान्तशिरोमणौ ग्रहगणिते


मुनिकृतशास्त्रे तु येन यावान् विषयः पृष्टस्तं प्रति तावानेवोक्त इत्येकदेशेऽपि सिद्धान्तपदप्रयोगो नैव दोषमावहति । इदं यल्लक्षणं क्रियते तत्पौरुषसिद्धान्तानामित्यविरुद्धम् ॥ ६ ॥

अध्येतव्यं ब्राह्मणेरेवेत्यध्ययनविधिविहितस्य सिद्धान्ताध्ययनस्य प्रवृत्यनुकूलां सिद्धान्तानभिज्ञनिन्दाद्वारेण' सिद्धान्तज्ञप्रशंसामाह (जानन्निति गर्जदिति )।॥ ७-८ ॥
 इदानीं ज्योतिः शास्त्रस्य वेदाङ्गत्वं निरूप्य वेदाङ्गत्वादवश्यमध्येतव्यं तद्विजैरेव नान्यैः शूद्रादिभिरित्येतत्प्रतिपादनार्थ श्लोकचतुष्टयमाह।

वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्याद्वदाङ्गत्वं ज्यौतिषस्योत्तमस्मात् ॥९॥
'शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषी श्रोत्रमुक्ततं निरुक्ततं च कल्पः करौ ।
या तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ॥१०॥
`वेदचक्षुः किलेदं स्मृतं ज्यौतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते ।
संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाऽङ्गेन हीनो न किञ्चित्करः ॥ ११ ॥
तस्माद्द्वजैरध्ययनीयमेतत् पुण्यं रहस्यं परमं च तत्वम् ।
यो ज्यौतिषं वेत्ति नरः स सम्यग्धर्मार्थकामाँल्लभते यशश्च ॥ १२ ॥

वा० भा० स्पष्टम् । ९-१२ ॥


१. भिज्ञानि क० पु० पा० २. वृद्धवसिष्ठ सिद्धान्ते छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं लोचने च । शिक्षा घाणं श्रोत्रमुक्त निरुत्तं वेदस्याङ्गान्याहुरेतानि षड्वा ( १ अ० ७ श्लोक ) तथा च सिद्धान्तशैखरे छन्दः पादौ शब्दशास्त्रञ्च वक्त्रं कल्पः:पाणी ज्यौतिषं चक्षुषी च । शिक्षा घ्राणं श्रोत्रमुक्त. निरुत्तं वेदस्याङ्गान्याहुरेतानि षट् च ( १ अ० ५ श्लोक०) ३. उक्तञ्चैतद्वृद्धवसिष्ठसिद्धान्ते वेदस्यचक्षुः किल शास्त्रमेतत् प्रधानताङ्गषु ततोऽर्थजाता । अङ्गर्युतोऽन्यैः परिपूर्णमूत्तिश्चक्षुविहीनः पुरुषो न किंचित्एवमेव सिद्धान्तशेखरे वेदस्य चक्षुः किल शास्त्रमेतत् प्रधानताऽङ्गेषु ततोऽस्य युक्ता । . . अङ्गर्युतोऽन्यैः परिपूर्णमूतिश्चक्षुविहीनः पुरुषो न कश्चित्' ( १ अ० ६ श्लोक ) ॥ ४. कथितञ्चैतद् वृद्धवसिष्ठसिद्धान्ते अध्येतव्यं ब्राह्मणैरेव तस्माज्ज्योतिः शास्त्रं पुण्यमेतद्रहस्यम् । एतद्बुध्वा सम्यगाप्नोति यस्मादर्थं धर्मं मोक्षमग्रच्यं यशश्च' (मध्या० १० श्लो०) एवमेव सिद्धान्तशेखरेऽपि ‘अध्येतव्यं ब्राह्मर्णरेव तस्मात्’**“( १ अ० ७ श्लो० ) ॥