पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/355

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१०
सिद्धान्तशिरोमणौ ग्रहगणिते


  यदा किर्लकादशाऽ ११ यनांशास्तदा किल नवभागाधिक राशिद्वयं रविः |भागोनं

                           रविः च पात:

त्रिभ शशी । एकविशतिभागाधिक त्रिभ पातः | २ २ ३ | एवं युक्तायनांशोंऽशशत

                           ९ २६ २१ 

शशी । अशीतिरर्कः । अंशद्विशती सपातः । अत्र पातः ३॥२१ । च २ ॥ २९ । अतोंऽशद्विशती सपातचन्द्रो २०० भवति । रविः २ ॥ २० । चन्द्रः ३ ॥ १० । सपातः ६ ॥ २० । प्रश्ने विपातचन्द्र इति यदुक्कं तद्धीवृद्धिदाभिप्रायेण । तत्र हि चक्राच्छोधितः पातः । अतस्तत्र विपातोऽत्र सपातस्तुल्य एव भवति ॥ अत्रायनांशोनितपातः ३ ॥ १० अस्य दोः कोटिजीवे लघुज्यकोत्थे ११८ ।। २१ अत्र दोज्र्या गुणसूर्येः १२३ गुणिता कृतैः ४ भक्ता जातं दोःफलम् ३६२८ ॥ ३० कोटिड्या त्वश्र्वे: ७ गुणिता सूर्ये: १२ भक्ता जातं कोटिफलम् १२ ॥ १५ अनेन कोटिफलेन वजिता द्विषड्रामा जाताः ३४९ ।। ४५ । यस्मादयनांशोनितपातोऽयम् ३ । १० कक्र्यादौ वर्ततेऽतः कोटिफलोनैस्तैर्बाहुफले भक्ते लब्धांशाः १० ।। २२ ।। २८ एभिरादित्यस्य गोलायनसन्धी ऊनीकृतौ । यतोऽयनांशोनिपातो मेषादौ वर्तते । एवं जातौ चन्द्रस्य गोलायनसन्धी ११ ॥ ८ ॥ ३७ ॥ ३२ ॥ २ ॥ ८ ॥ ३७ ॥ ३२ ॥ तथान्यौ ५ ॥ ८ ॥ ३७ ॥ ३२ । | ८ । ८ । ३७ ।। ३२ । अत्र स्वगोलसन्धिस्थस्य विधोः स्फुटेन शरेण स्फुटीकृता क्रान्तिः पूर्णं भवतीति प्रती तिः ।


  अत्र यथोक्ते बद्धे गोले क्रान्तिवृत्ते मेषादेः सकाशाद्विलोमं चन्द्रपातस्य राशिभागादिक गणयित्वाग्रे चिन्हं कार्यम् । एवं विमण्डलेऽपि । तयोर्मण्डलयोस्तत्र संपातं कृत्वा तस्मिन् पूर्वतस्त्रिभेऽन्तरे सार्धेश्चतुभिः ४ ॥ ३० भार्गेः क्रान्तिमण्डलादुत्तरतस्तथा पश्चिमे त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतो विमण्डल विन्यस्य स्थिरं कार्यम् । तथा कृते सति विमण्डले विषुवन्मण्डलेन सह यत्र संपातस्तत्र चन्द्रस्य गोलसन्धिः । स तु रविगोलसन्धेः कियतान्तरेण वर्तते इति न ज्ञायते । किंतु रविगोलसन्धी यावान् विक्षेपस्तावान् विज्ञायते । स च कथ तदुच्यते । रविगोलसन्धिरयनांशोनितं चक्रम् ११।१९ । तत्रस्थस्य चन्द्रस्य शरसाधनार्थं चन्द्रस्य पातो यावत् संयोज्यते तावदयनांशोनित्रपातः संपद्यते । तस्य दोज्य परमशर २७० गुणा त्रिज्यया १२० भाज्या । एवं सति गुणकभाजकी त्रिशतापवर्तितौ । गुणकस्थाने नव ९ । भगहारस्थाने चत्वारः ४ । फलं तत्र स्थाने चन्द्रस्य शरः । तावत्येव तत्र तस्य स्फुटा क्रान्तिः । अस्फुटक्रान्तेरभावात् । एतावती स्फुटा क्रान्तिः कियद्भिर्भागैः संपद्यत इति ज्ञातुमशक्यम् । अत्र किल क्रान्तिसाधने छात्राणां सुखार्थं स्थूलान्यपि पञ्चदशभागलभ्यानि क्रान्तिखण्डानि ब्रह्मगुप्साद्यैः पठितानि तद्यथा-

क्रान्तिकला द्विरसगुणास्त्रिखमुनयो द्विखदिशो वसुन्यकः ।
वसुवसुविश्वे च खकृतमनवश्च क्षेपयुतवियुताः ॥ इति ।
३६2 ॥ ७०३ || १० ०2 ।। १२३८ ।। १३८८ || १४४० ॥

  तथा शरखण्डकान्यपि मया करणे कथितानि ।