पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/351

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०६
सिद्धान्तशिरोमणौ ग्रहगणिते


 अत्रोपपत्तिः-उदयास्तलग्नसाधने तु पूर्वं कथितैव । उदयलग्नोदये किल भस्योदयः यदोदयलग्नसमो रविर्भवति तदा रविणा सह तन्नक्षत्रमुदेति । तस्मादुदयात् प्राक् पठितेष्टघटिकातुल्यं काल यावत् तन्नक्षत्र रविप्रभाभिहत क्षितिजादुपरिस्थमपि न दृश्यते । अथ पठितेटकाले यत् क्रमलग्नं तत्स्थानस्थितो रविरुदयाकतुल्यो भवति तथा रव्यस्तमयादनन्तरं नक्षत्रास्तमयात् पूर्वं प्रत्यक्क्षतिजादुपरिस्थमपि नक्षत्रं पठितेष्टकालं यावन्न दृश्यते । अथ नक्षत्रस्य क्षितिजादुपरि स्थितत्वात् प्रत्यक्क्षतिजस्थेनार्केण न्यूनेन भवितव्यम् । अतोऽस्तलग्नात् पठितेष्टकाले व्यस्तं कार्यम् । तल्लग्नं प्राक्क्षतिजस्थं भवति । अतः षड्भोनितं प्रत्यक्क्षतिजेऽस्तसूर्यो भवतीत्युपपन्नम् । इष्टोनषष्टि ६० घटिकास्वित्यादौ वासना सुगमैव ।। १२-१४ ।।

अथ विशेषमाह—
यस्योदयाकदधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैध्यत् ।
तिग्मांशुसान्निध्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमयः कथंचित् ॥१५॥

 वा० भा०-यस्य नक्षत्रस्योदयाकदस्ताकऽधिको भवति तस्य नक्षत्रस्याकसानिध्यवशादस्तो नास्तीति वेदितव्यम् । इदं कुत इति सौम्यशरातिदैध्यत् । यस्य भस्य सौम्यः शरो दीर्घो भवति तस्य पलोद्भवासवो बहवो भवन्ति । तैविलोमलग्ने क्रियमाण उदयलग्नमूनं भवति । अस्तलग्न क्रियमाणमधिक भवति ताभ्यां हयुदयास्ताकों साध्यौ। तत्रास्तार्केण किल न्यूनेन भवितव्यम् । अस्तार्कसमे रवौ किलादृश्यतारम्भस्ततः कियन्ति च दिनान्यदृश्यं भूत्वोदयार्कसमे रवौ तद्धिष्ण्यमुदेति । अत उदयार्केणाधिकेन भवितव्यम् । यतोऽर्कसन्निधिवशेनैतावुदयास्तौ । यथा यथा सौम्यशरस्य दीर्घत्वं यथा यथाक्षवशेन गोलस्य दक्षिणतो नामन्नं तथा तथोदयास्तार्कयोरल्पमन्तरं भवति। अल्पान्तरेऽल्पान्येव दिनानि तन्नक्षत्रमदृश्यं भवति । एवं यस्मिन् देशे उदयास्ताकाँ तुल्यौ भवतस्ततः परं तस्मिन् देशे तस्य नक्षत्रस्याकसन्नभ वेनादृश्यताभाव इति युक्तितः सिद्धम् ।। १५ ॥

अथान्य विशेषमाह--
यस्य स्फुटा क्रान्तिरुदक् च यत्र लम्बाधिका तत्र सदोदितं तत् ।
न दृश्यते तत् खलु यस्य याम्या भं लुब्धकः कुम्भभवो ग्रहो वा ।।१६।।

 वा० भा०–-यस्य स्फुटा क्रान्तिरुत्तरा यस्मिन् देशे लम्बाधिका भवति तस्मिन् देशे तद्भ ग्रहो वा सदोदित एव । यस्य याम्या तद्ध लुब्धकोऽगस्त्यो ग्रहो वा सदा न दृश्यते । यस्मिन् देशे सप्तत्रिशदधिकाः पलांशास्तत्रागस्त्यो न दृश्यते । यत्र द्विपश्चाशदधिकाः पलांशास्तत्राभिजित् सदोदितमेव ।
 अस्य वासना । लम्बांशैविषुवन्मण्डलं दक्षिणक्षितिजादुपरि भवति तैरेव भागैरुक्तरक्षितिजादधः । अतो लम्बाधिकामुक्तरां क्रान्तिं विषुवमण्डलाद्दत्त्वां तदग्रे यदहोरात्रवृत्तं निबध्यते तदुत्तरक्षितिजादुपर्येव भवति । अथ तामेव दक्षिणां क्रान्तिं दत्त्वा तदग्रे यदहोरात्रवृत्तं निबध्यते तद्दक्षिणक्षितिजादध एव भवति । अतस्तस्मिन् क्षितिजाधःस्थेऽहोरात्रवृत्ते परिभ्रमत् तद्भं सततमदृश्यम् । एवं क्षितिजाडुपरिस्थे तु सततं दृश्यम् ।। १६ ।।