पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/341

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९६
सिद्धान्तशिरोमणौ ग्रहगणिते

दृश्यं कृष्णम् ॥ अथ भार्धान्तरितस्य परिवर्त्तनेन पौर्णमास्यामूध्र्वमर्धं कृष्णमधस्तनं शुक्लम् । एवं पादोनषट्काष्टलवान्तरितस्य रवेस्तिर्यक्स्थितत्वादूध्र्वाधोदलयोर्दले सितासिते भवतः । एवमर्केन्द्वोर्दीक्षिणोत्तरवलनाद्दिग्वलनम् ॥ तज्ज्ञानाय भुजकोटिसाधनम् । तदुपपत्तिर्गोलेऽप्यभिहिता ।

यद्याम्योदक् तपनशशिनोरन्तरं सोऽत्र बाहुः
कोटिस्तूध्वधरमपि तयोर्यच्च तिर्यक् स कर्णः ।
दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्च कोटिस्तदग्रे
चन्द्र: कणों रविदिगनया दीयते तेन शौक्ल्यम्।

 रवीन्द्वोर्दक्षिणोत्तरमन्तरं भुजः ।। रवेर्यतः शशी सा तस्य दिक् ॥ यदूर्ध्वाधरमन्तरं सा कोटिः । यत् तिर्यक् स कर्णः । चन्द्रबिम्बार्धमङगुलषट्कं कर्णं परिकल्प्य तत्परिणतस्य भुजस्य वलनसंज्ञा कृता ॥ मासस्य प्रथमचरणे किल शृङ्गोन्नतिः । वलनं च याम्यमङ्गुलत्रितयम् ३ । तत्र पूर्वभागाभिमुखे चन्द्रश्रृङ्गे भवतः । अतश्चन्द्रमध्यात् पूर्वाभिमुखी विभा देया । यतस्तदग्रात् खण्डितस्य चण्डीशचूडामणेस्तथाविधे शृङगे भवतः । अतः प्राग्भागतो वलर्न दक्षिर्ण दत्तम् । मासान्तपादे तु पश्चिमभागाभिमुखे श्रृङ्गे भवतः । अतस्तत्र पश्चिमभागाद्वलनं देयम् । अत उत्त' 'मासस्य तुर्यंचरणे वरुणेशदेशादिति । ततश्वन्द्रकेन्द्राद्वलनाग्रानुगते सूत्रे या विभा बत्ता सा पूर्वप्रतिपादितत्र्यस्रकोटिः । स्वभा तु कर्ण: । अतस्तया विभाग्राद्वृत्ते कृते चन्द्रशुक्लखण्डस्य सम्यगाकृतिज्ञयिते। यस्यां दिशि चन्द्राद्रविर्भवति तद्दिक श्रृंड्गमुन्नत 'भवति ॥ यत् पूर्वं वलनमानीतं तच्चन्द्रदिक् । चन्द्रादकों व्यस्तदिग्भवति । अत उत्ततं' स्यात् तुङ्गशृङ्गं वलनान्यदिक्स्थमिति सर्वमुपपन्नम् ॥८-९॥

 उपपत्तौ हि क्वचिदमूर्तं प्रमेयं परब्रह्मवत् तज्ज्ञानमेव स्वसंवेद्यम् । अतोऽत्र मन्दावबोधनेन स्वमत द्रढयितु परमतनिराकरणाय सुगणकानभ्यथ्य दृष्टान्तमाह-
यौ ब्रह्मगुप्तकथितौ किल कोटिकणों ताभ्यां कृते तु परिलेखविधौ यथोक्त ।
नास्तीव भाति मम दृग्गणितैक्यमत्र शृङ्गोन्नतौ सुगणकैर्निपुणं विलोक्यम् ||१०||

यत्राक्षोऽङ्गरसा ६६ लवाः क्षितिजवत् तत्रापवृत्ते स्थिते
मेषादाबुदयं प्रयाति तपने नक्रादिगेन्दोर्दलम्।
याम्योदग्वलयेन खण्डितमिव प्राच्यां सितं स्यात् तदा
नैतद्ब्रह्ममतेऽस्य हि त्रिभगुणो बाहुश्च कोटिस्तदा ॥११॥

शुझे समे स्तो यदि बाह्वभाव ऊध्र्वाधरे ते यदि कोटयभावः।
त्रिज्यासमौ तस्य च कोटिबाहू किंवा ममानेन नमो महद्भ्यः ॥१२॥

 वा० भा०-यत्र देशे षट्षष्टिः ६६ पलांशास्तत्र मेषादिर्यदा प्राक्क्षतिजस्थो भवति तदा सर्वेऽपि राशयः क्षितिजस्था भवन्ति । अपमण्डलमेव क्षितिजम् । यदा वृषभान्तस्थः किल सूर्यो मेषान्तस्थश्चन्द्रस्तदा चन्द्रस्योत्तरे भागे द्वयङ्गुलं शुक्लमूर्ध्वरूपं च शृङ्गं भवति । उत्तरस्थितत्वादकस्य । यदा मेषाम्तस्थो रविर्मेषादिस्थशचन्द्रस्तदाप्येवमेव । यदा मेषादिस्थो रविः