पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/340

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९५
श्रृङ्गोन्नत्यधिकारः

 अथ परिलेखमाह -
सूत्रण बिम्बमुडुपस्य षडङ्गुलेन कृत्वा दिगङ्कमिह तद्वलनं ज्यकावत् ।
मासस्य तुर्यचरणे वरुणेशदेशात् प्राग्भागतः प्रथमके सुधिया प्रदेयम् ॥८॥
केन्द्राद्विभां तद्वलनाग्रसूत्र कृत्वा विभाग्रे स्वभया च वृत्तम् ।
ज्ञेयेन्दुखण्डाकृतिरेवमत्र स्यात् तुङ्गशुङ्गं वलनान्यदिक्स्थम् ॥९॥

 वा० भा०-समायां भूमी षडङ्गुलेन सूत्रेण वृतमालिख्य दिग्भिरङ्गितं च कृत्वा तं चन्द्र परिकल्प्य तत्र वृत्ते प्रागानीतवलन ज्यावद्यथार्श देयम्। मासान्तपादे पश्चिमदिक चिह्नतः । प्रथमचरणे तु पूर्वेदिग्भागात् । ततः केन्द्राद्वलनोपरि वृत्ताद्बहिरपि खटिकया सूत्रमुच्छाद्यम् । अथ केन्द्रात् सूत्रे विभा च देया। ततो विभाग्रचिह्न स्वभामितेन सूत्रेण वृतमालिख्य तेन वृत्तेन खण्डितस्य चन्द्रस्य शेषखण्डाकृतिरेवमत्र ज्ञातव्या । ननून्नतिनती ऊर्ध्वाधरभावौ ॥ समायां भूमौ चन्द्रबिम्बखण्डे लिखिते दृष्ट श्रृङ्गमुन्नतमिति कर्थ ज्ञायत इत्याशङ्कयाह । स्यात् तुङ्गश्रृङ्ग वलनान्यदिक्स्थमिति । यदि दक्षिणं वलनं तदोत्तरं शृङ्गमुन्नतं ज्ञातव्यं यदुत्तरं तदा दक्षिणमिति ।

 अत्रोपपत्तिः---जलमयस्य गोलकाकारस्य शशिनः शुक्लत्वकारणं तदुपचयापचयकारणं च तावदुच्यते ॥ यथोक्तम् गोले--

तरणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरदिशि चन्द्रश्रन्द्रिकाभिश्चकास्ति ।
तदितरदिशि बालाकुन्तलश्यामलश्रीर्घट इव निजमूत्तिच्छाययैवातपस्थः' ।

   हरिहरविरञ्चिवरलाभश्रवणसहर्षपुतृकामात्रिनेत्रविगलितजलबिन्दुरयमिन्दुः पितामहेन ग्रहत्व अाकाशे निवेशित इति श्रूयते स्मृतिषु पुराणेषु । अत अागमप्रामाण्येनास्य जलमयत्वम् ॥ तदुपरि दूरतो रविभ्रमति ॥ अतोऽस्य यस्यां दिशि दिनकरस्तत्करनिकरसङ्गमजनितचारुचन्द्रिकानिचयेन तस्यां दिशि चन्द्रश्रकास्ति दीप्सिमान् भवति। तदितरदिशि बालाकुन्तलश्यामल थी: । कुन्तलो वर्तुलः केशबन्धविशेषः । तदुपचारतः कश्चित् केशेष्वपि प्रयुज्यते । बालाकुन्तलस्येव श्यामला कृष्णा श्रीः शोभा यस्येति विग्रहः । कया तत्र श्यामल:। निजमूतिच्छायया। क इव। आतपस्थो घट इव। आतपस्थस्य घटस्य दिनकरदिशि यद्दल तदुज्ज्वलमितरच्छपामल दृश्यते तथा चन्द्रस्येत्यर्थः ॥ अत एकराशौ दर्शे सूर्यादधःस्थस्य विधोरूध्र्वमर्धं शुक्लम् । अधस्तनं मनुष्य


१. अत्र लल्ल:-
भार्गवेन्दुसुतयोरधः स्थयोर्दृश्यते यदसितं न चन्द्रवत् ।
तद्रवेर्निकटवर्तिनोस्तयोः सर्वमेव वपुरुज्ज्वलं भवेत् ।
        शि० धी० गो० मध्य० ४२ दलो० ।

तथा च श्रीपतिः---
विवस्वतोऽधः स्थितयोरपीन्दुवन्न कृष्णभावो वपुषि ज्ञशुक्रयोः ।
रवे: समासन्तयाल्पकाययोर्यथा मणेरातपदेशवतिन: ।
        सि० शे० १८ अ० १५ श्लो० ।।