पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/327

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८२
सिद्धान्तशिरोमणौ ग्रहगणिते


ता एव खेटद्युतिसाधनार्थं क्षेत्रात्मकत्वात् सुधिया नियोज्याः ।
ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाढ्योऽन्तरकाल एवम् ।।१२।।|

 वा० भा०-यस्मिन् काले ग्रहस्य छाया ज्ञातव्या तात्कालिकस्य ग्रहस्योदयलग्नमिष्टलग्नं च तयोरन्तरघटिकाः साध्या ऊनस्य भोग्योऽधिकभुक्तयुक्त इत्यादिना । एवं ता ग्रहस्य सावनघटिका दिनगता भवन्ति ।

 अत्रोपपत्तिः-अत्रष्टलग्नं किल क्षितिजे ॥ इष्टकालिकस्य ग्रहस्य यदुदयलग्नं कृतं तदुदयलग्नमेव । ग्रहः स क्षितिजादुपरि यत्र कुत्रचित् स्थाने । तस्य भोग्यकाल इष्टलग्नस्य भुक्तकालेन मध्योदयैश्च युक्तस्तस्य ग्रहस्य दिनगतः कालो भवितुमर्हति ॥ ता घटिकाः सावना भवन्तीति यदुक्तं तत् कुतः । यतस्ता घटिकाः क्षेत्रात्मिकाः ॥ इदं गोलोपरि दर्शयेत् । गोल इष्टलग्नं क्षितिजे निवेश्य तात्कालिकग्रहस्योदयलग्नं मेषादेर्दत्त्वा तदग्रे ग्रहसंज्ञको बिन्दुः कार्यः । तत्र तस्याहोरात्रवृत्तं निवेश्यम् । तस्मिन् वृत्ते पूर्वक्षितिजसंपातादारभ्य ग्रहचिह्नपर्यन्तं यावत्यो घटिकास्तावत्यस्तस्य ग्रहस्य द्युगता भवन्ति । ताश्च सावनाः । यतोऽहोरात्रवृत्ते विगणय्य गृहीताः । ग्रहस्याहोरावृत्ते याः षष्टिघटिकास्ताः सावनाः । छायासाधनार्थं क्षत्रात्मिका एव नाडघो ग्रहीतुं युज्यन्ते ॥ छायासाधनं हि क्षत्रव्यवहारः ॥ अत उत्त' 'ता एव खेटद्युतिसाधनार्थमित्यादि ॥११-१२॥

 इदानीं क्रान्तेः स्फुटत्वं कृत्वा छाया साधनातिदेशं करोति स्म -

स्पष्टा क्रान्ति:स्फुटशरयुतोनैकभिन्नाशभावे
तज्ज्या स्पष्टोऽपमगुण इतो युज्यकाद्य ग्रहस्य ।
कृत्वा साध्या तदुदितघटीभिः प्रभा भानुभाव
च्चन्द्रादीनां नलकसुषिरे दर्शनायापि भानाम् ॥१३॥

 वा० भा०-ग्रहस्य क्रान्तिः स्फुटेन शरेण तुल्यदिक्त्वे युता भिन्नदिक्त्वे युता सती स्फुटा भवति । स्फुटक्रान्तेर्या ज्या सा स्फुटक्रान्तिज्या तया कुज्याद्युज्याचरज्यादि सर्व प्रसाध्यम्। पूर्वानीताभियुंगतघटिकाभिरुन्नत ज्ञात्वाथोन्नतादूनयुतादित्यादिना भानुभावच्चन्द्रादीनां ग्रहाणां भानी वा छाया साध्या। यद्यपि ताराग्रहाणां भानां च छाया न दृश्यते तथापि नलकसुषिरे तद्दर्शनाय तदुपयोगिनी भविष्यतीति साध्या ।

 अत्रोपपत्तिस्त्रिप्रशनोत्तव ॥ १३ ।।

 इदानीमत्रापि विशेषमाह

स्वभुक्तितिथ्यंशविवर्जितो ना महांल्लघुः खाग्निकृतां ४३० शहीनः ।
स्पष्टो भवेदस्फुटजातदृग्ज्या संताडिताकैः स्फुटशङ्कुभक्ता ॥१४।
प्रभा भवेन्ना तिथिभागतोऽल्पो यावद्विधुस्तावदसावदृश्यः ।
एवं किल स्यादितरग्रहाणां स्वल्पान्तरत्वान्न कृतं तदाद्यैः ॥१५॥