पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/326

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८१
ग्रहच्छायाधिकारः

 वृषभादिस्तु मध्यमक्रान्त्युत्पन्नचरकालेन क्षितिजे उदेति । तस्मात् स्वक्षितिजे यदा वृषाद्युदयस्ततः शरतुल्यक्रान्त्युत्पन्नचरकालेन ग्रहः पूर्वं पश्चाद्वा क्षितिजे लगति तदेवाक्षं दृक्कर्म । स्पष्टशरस्तु स्फुटास्फुटक्रान्त्योः समान्यदिक्त्वेऽन्तरयोगाद् भवतीति स्पष्टम् । याम्यशरो' याम्यध्रुवाभिमुखः । याम्यध्रुवादुपरि क्षितिजमिति क्रमलग्नं कृतम् । उत्तरशरे विलोमलग्नं कृतम् । क्षितिजस्थे ग्रहे दृक्कर्माक्षमिदम् । याम्योत्तरवृत्तस्थे ग्रहे आक्षदृक्कर्मसंस्कारोऽनुचित इति । नतघटीभिरनुपातादन्तरे आक्ष दृक्कमोचितमिति सौरे तथा कृतम् । आचार्यस्याप्येवमेव वस्फुमुचितम् । अन्यत्सर्व भाष्ये स्पष्टम्। अयमधिकाधिकारस्त्रिप्रश्नाधिकार एवान्तर्भवति। अत एव सौरे पृथङ्नोक्तः । यतो ग्रहगणितस्य दशैवाधिकाराः दशभेदं ग्रहगणितमित्यनेन । यथा सौरे छेद्यकाधिकारो ग्रहणाधिकारान्तगतोऽपि भिन्न उक्तस्तथैवाचार्येणाप्ययं भिन्न उक्त इति न कोऽपि दोषः ॥ ६-८ ।।

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके
सत्सिद्धान्तशिरोमणेर्द्युचरभं छायाधिकारो गतः ॥

इति नृसिहकृतौ छायाधिकारः ॥

 इदानीमुदयास्तलग्नयोः स्वरूपं प्रयोजन चाह

निजनिजोदयलग्नसमुद्गमे समुदयोऽपि भवेद्धनभः सदाम् ।
न भवति चास्तविलग्नसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहभ्रमात् ॥ ९ ॥

 वा० भा० - स्पष्टार्थम् । ९ ।

 इदानी ग्रहस्य दृश्यत्वलक्षणमाह

निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगः स दृश्यः । ।
Na, na O VM दिनेऽपि चन्द्रो रविसन्निधानान्नास्तं गतश्चेत् सति दर्शने भा ॥१०॥

-

 वा० भा० - दिनकरेऽस्त गते यदिष्टकाले लग्न तदिष्टलग्नम्। तस्माद्ग्रहस्योदयाख्य* लग्नं न्यूनमस्ताख्यं चाधिकं यदि भवति तदा ग्रहो दृश्यः । इतोऽन्यथा चेददृश्यः । एवं लक्षणे । सति चन्द्रो दिवसेऽपि दृश्यः । यदि ग्रहो दृश्यस्तदा ग्रहस्य छाया साध्या । -

 अत्रोपपत्तिः स्पष्टाथ ॥ १० ।।

 इदानी छायार्थ ग्रहस्य द्युगतमाह

ज्ञातुं यदा भाभिमता ग्रहस्य तत्कालखेटोदयलग्नलग्ने।
साध्ये तयोरन्तरनाडिका यास्ताः सावनाः स्युर्द्युगता ग्रहस्य ॥११।।


१. शशे इति क ख पु० ।

सि०-३६