पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/325

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८०
सिद्धान्तशिरोमणी ग्रहगणिते

भवति। अथ तमेव ग्रह सभार्थ रवि प्रकल्प्य तैरेवासुभिरुतरे शरे यत् क्रमलग्न याम्ये विलोम क्रियते तद्ग्रहस्यास्तलग्नम् ।

 अत्रोपपत्तिः अत्र गोले विषुवन्मण्डलं स्वाक्षांशैर्यावन्नामितं तावदुन्मण्डलमुत्तरगोले क्षितिजादुपरि लगति याम्येऽधः । यतस्तत्रस्थो ग्रहः स्वचरार्धासुभिरुन्नति नति च गतः । अतश्रार्धस्य या वासना सैव पलोद्धवासूनाम् । स्फुटास्फुटक्रान्तिजयोश्वरार्धयोरन्तरे यावन्तोऽस वस्तावन्तः शरभवा इत्यर्थाज्जातम् । यतस्तयोरन्तरं शर एव । एवं तुल्यदिक्त्वे । यदा महता शरेणान्यदिक्त्वं नीता क्रान्तिस्तदा शरस्यैकं खण्डमुत्तरतोऽन्यद्दक्षिणतः । तयोर्योगे यतः शरो भवति । अतस्तज्जनितयोश्चरार्धयोर्योगे शरजनिताः पलोद्भवासवः स्युः ॥ एवं हि महति शरे ।

 अथाल्पे । ग्रहः किलोत्तरगोल उत्तरश्च तस्य शरस्तदाक्षवशाच्छरेण ग्रहस्य यदुन्नमनं तत् त्रैराशिकेन साध्यते। यदि लम्बज्यया कोटद्याक्षवलनतुल्यो भुजस्तदा स्फुटशरतुल्यया किमिति । अत्र यत् फल तद्ग्रहझुज्यावृत्ते ज्यारूप भवति। अथवा लघुना क्षेत्रेणानुपातः । यदि द्वादशाङ्गलकोटया पलभा भुजस्तदा स्फुटशारकोटया किमिति । फलं तुल्यमेव । अथ त्रिज्यावृत्ते परिणामायानुपातः । यदि द्युज्यावृत्त एतावती ज्या तदा त्रिज्यावृत्ते कियतीति । फलस्य धनुः कतु युज्यते । तच्छरस्याल्पत्वान्नोपपद्यत इति न कृतम्।

 अयनदृक्कर्मण्यस्फुटविक्षेपादसवः साधिताः । इह तु स्फुटात् । तत्र कारणमुच्यते ॥ तेन दृक्कर्मणा निरक्षदेशक्षितिजस्थो ग्रहः कृतः । तत् क्षितिजमन्यदेश उन्मण्डलम् । शरमूले यद्द्युज्यावृत्तं शराग्रं च यत् तयोर्वृत्तयोरुन्मण्डले यावदन्तरं तावान् स्फुट: शरः । स तु कोटिरूपः । अस्फुटः कर्णरूपः । अतोऽत्र कोटिरूपेण पलोद्भवा असवः साधिताः ॥ कृतानयनवृक्कर्मको ग्रहोऽक्षवशात् प्रागुदित उदेष्यति वा यैरसुभिस्तेऽत्र पलोद्भवाख्याः ॥ अथ याम्ये शरे तैरसुभिः क्षितिजादध.स्थो ग्रहो यावदुपरि क्षितिजं नीयते तावत् कृतानयदृक्कर्मग्रहादग्रतः क्रान्तिवृत्तं क्षितिजे लगति । यदि सौम्यः शरस्तदा तैरसुभिः क्षितिजादुपरिस्थो ग्रहः क्षितिजं यावदधो नीयते तावत् कृतायनदृक्कर्मकाद्ग्रहात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति । अत उत्त शरे याम्योतरे क्रमविलोमविधानप्लग्नमित्यादि ।' एवं कृत उदयलग्न जातम् । अस्मादुदयलग्नसाधनाद्वयस्तमस्तलग्नसाधनम् । यतो यैरसुभिविक्षेपेण प्राच्यां ग्रहः क्षितिजादुन्नाम्यते तैरेव प्रतीच्यां नाम्यते । यैनम्यते तैरेवोन्नाम्यते । अथ प्रतीच्यां ग्रहेऽस्त गच्छति प्राच्यां यल्लग्नमुदेति तदस्तलग्नम् । अतो भार्धाधिकात् खचरत इत्युतम् । इदं सर्व गोलोपरि सम्यग्दृश्यते । ६-८ ।

 वा० वा०-अथाक्षट्टक्कर्मसाधनमाह—स्फुटास्फुटक्रान्तिजयोरिति । मेषादिरेकस्मिन्नेव काले उन्मण्डले क्षितिजे च लगति । ततो वृषभादिमेंषोदयासुभिरुन्मण्डले लगति निरक्षजैः । वृषभादिस्थो ग्रहोऽपि तदोन्मण्डले लगति परं यदि शराभावः। विद्यमाने शरे वृषाद्युदयकालीदायनदृक्कर्मकालेन पूर्व पश्चाद्वोन्मण्डले लगति । तत: क्षितिजे कियता कालेनोदेष्यतीति चिन्त्यते ।

 तत्रोन्मण्डले ग्रहोदयकाले यावती ग्रहस्य स्पष्टक्रान्तिः सा कोटिः क्षितिजे या स्पष्टाग्रा स कर्ण: । द्युरात्रवृत्ते या कुज्या स भुजः । तदुत्पन्नं यच्चारं तेन कालेन पूर्व पश्चाद्वा स्वक्षितिजे ग्रहो लगिष्यति ।