पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/287

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४३
सिद्धान्तशिरोमणौ ग्रहगणिते

इदानीं प्रकारान्तरेण बिम्बकलानयनमाह

भानोर्गतिः स्वदश १० भागयुतार्धिता वा ..
बिम्बं विधोस्त्रि ३ गुणिता युगशैल ७४ भक्ता ।
तिथ्यद्रि ७१९ हीनशशिभुक्तिरिषुद्वि २५ भक्ता
नन्दाक्षि २९ युग्भवति वा विधुबिम्बमेवम् ॥ ८ ।

 वा० भा०-रवेर्गतिः स्वदशांशेन १० युताधिता च रवेः कलाबिम्बं भवति । अथ चन्द्र
गतिस्त्रि ३ गुणिता युगशैलभक्ता तद्विधुबिम्बं भवति । अथवा चन्द्रभुक्तिस्तिथ्यद्विभिः ७१५ हॉना
पञ्चविंशत्या २५ भक्ता फलमेकोनत्रिशता २९ युतं चन्द्रबिम्बं भवति ।

 अत्रोपपत्तिः--त्रिज्यातो महति कर्णे ग्रहबिम्बं लघु भवति तथा गतिश्च लघ्वी
भूमध्याद्दूरगतत्वाद्ग्रहस्य । अथाल्पे कर्णे बिम्बं पृथु गतिश्च महती । तत्रासन्नत्वात् ।
बिम्बगत्योरुपचयापचययोस्तुल्यकालत्वाद्गतेरपि बिम्बं साधयितुमुचितं भवति । तद्यथा । तत्र
त्रैराशिकुम् ॥ यदि योजनात्मिकया गत्या पादोनगोऽक्षधृतिभूमितया द्विद्विशरर्तु-६५२२ संख्यं बिम्बं
लभ्यते तदा कलागत्या किमिति । अत्र गुणकस्य द्विद्विशरर्तुसंख्यस्यैकादशभागेन ५९२ ।
55 गुणकभाजकावपर्वातंती जाता गुणकस्थान एकादश ११ । भाजके विंशतिः २० । अतो
रविगतिः सुखार्थ दशगुणा विंशत्या हिश्यते तावदधिता भवति यत एकादशभिर्मुण्यातो.
दशांशेनाधिका कृतेत्युपपन्नम् ।

 एवं चन्द्रस्य खनागाम्बुधि ४८० मितो गुगो भागहारो योजनगतिरेव
११८५९ । एतौ खनृपै १६० रपर्वार्तितौ जातं गुणकस्थाने त्रयं भागहारस्थाने चतुः
ससतिः ७४ । अत्र परमं विकलात्रितयं यदन्तरं तत् सुखार्थमङ्गीकृतम् ।

 " अथ चन्द्रबिम्बानयने क्रियोपसंहारः सुखोपायार्थं कृतः । तत्र तिथ्यद्रि ७१५ तुल्यस्य गति
खडण्स्यैकोनत्रिश २९ न्मित बिम्बखण्ड लभ्यते । गतिशेषस्य पञ्चविशत्या २५ भागे हृते बिम्बशेर्ष
कलात्रियं ३ लभ्यते । अतस्तदैक्ये द्वात्रिश ३२ न्मध्यमं चन्द्रबिम्बम् । गतेरुपचयापचयवशात्
स्फुटत्वे बिम्बस्यापि स्फुटत्वमुपपन्नम्। ८ ।

इदानी राहोः प्रकान्तरेण कलाबिम्बमाह fa YN GAN Fa

भानोगतिःशर ९ हता रविभिः १२ विभक्ता
चन्द्रस्य लोचन २ गुणा तिथि १५ भाजिता च ।
लब्धान्तर भवति वावनिभाप्रमाणं
भूभा विधुं विधुरिनं ग्रहणे पिधत्ते ॥ ९ ।।

 वा० भा०-रविगति: पश्चगुणा द्वादशभक्ता फल कलात्मकमनट स्थाप्यम्। अथ शशि
गतिद्विगुणिता पञ्चदशभाजिता । इदमपि कलात्मको फलम् । अनयोः फलयोरन्तरं भूभाबिम्ब
प्रमाणं भवति ।