पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/215

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१७०
सिद्धान्तशिरोमणी ग्रहगणिते

सप्तभिः कोटिभिर्गुण्या स्वस्वभुजेन भाज्या ससधा लम्बज्या भवति । ससधा लम्बज्या सप्तभि

भुजैर्गुण्या स्वस्वकोटच्या भक्ता ससधाक्षज्या स्यात् ॥१७-१९||

वा० वा०-एषामथैकस्य तु बाहुकोटिकणेंरित्यादिवृतजातं भाष्ये
स्पष्टम् ॥ १८-१९ ।।

इदानीमन्यदाह

क्रान्तिज्यके कर्णगुणे विभक्ते कोटया भुजेनासमिताग्रका स्यात्।
आद्यं द्वितीयं समशङ्कुरेव स्यात् तद्धृतिः कोटिहृतः श्रुतिघ्नः ॥२०॥

 वा० भा-क्रान्तिज्याक्षक्षेत्रकणेंन गुणित द्विः स्थाप्या । एकत्र स्वकोट्या भक्ता

सत्यग्रा भवति । अन्यत्र स्वभुजेन भक्ता तत्र समशङ्कुः ॥ एवं ससभिः कर्णेः ससधाग्रा

ससधा च समशङ्कुर्भवति । एष शङ्कुः ससभिः कर्णेर्गुणितः स्वस्वकोटिभक्तः ससधा तद्धू

तिर्भवति ॥ २० ॥

इदानीमन्यदाह-

कर्णेन निघ्नी पृथगग्रका वा भुजेन भक्ता खलु तद्धृतिः स्यात् ।

 वा० भा०-अग्रका ससधा ससभिः कणेंगुंण्या स्वस्वभुजेन भाज्या ससधा वा तद्धृति

भवति ।

इदानीमन्यदाह

कोटदा हता तद्धतिरग्रका च कणेंन दोष्णा क्रमशो विभक्ता । २१ ।
द्विधा भवेद्वा समवृत्तशङ्कुः स दोर्गुणः कोटिहृतोऽग्रका वा ।

 वा० भा०-सप्तधा तद्धतिः सप्तभि: कोटिभिर्मुण्या स्वस्वकणेंर्भाज्या सप्तधा समशड्या

कुर्भवति । एवं सप्तधाग्रा सप्तभिः कोटिभिर्गुण्या स्वस्वभुजेन भक्ता । एवं वा सप्तधा

समशङ्कुर्भवति । स समशङ्कुः सप्तधा सप्तभिर्भुजैर्गुण्यः स्वस्वकोटच्या भक्तः सप्तधाग्रा वा भवति ॥

१०६-२१३ ।।

इदानीमन्यदाह

कोटयुद्धृतं तद्धृतिखण्डमूर्ध्वं श्रुत्या हतं वा समवृत्तशङ्कुः ॥ २२ ।।

वा० भा० - कुज्योनिता तद्धृतिस्तत् तद्धृत्यूध्र्वखण्डम् ॥ तत् सप्तधा सप्तभिः कर्णेर्गुण्यं
स्वस्वकोटच्या भक्तं ससधा वा समशङ्कुर्भवति ॥२२॥

इदानीमन्यदाह—

द्विधापमज्या भुजकोटिनिध्नी कोटया च दोष्णा विहृताद्यमाप्तम् ।
कुज्या परं तद्धृतिखण्डमूर्ध्वं स्यात् तद्धृतिः संयुतिरेतयोर्वा ॥ २३ ।।