इत्यत्र भुजद्वयोऽप्यग्रा तुल्यत्वमभ्युपगम्य भुजयोरेकान्यदिशोरन्तरमैक्यं
रविक्षणं शङ्क्वन्तरहृत्पलभेत्यत्र यन्त्राध्याये यावदेव भुजान्तरं तावदेव शङ्कतला
न्तरमित्युक्तम् । कथमन्यथाग्रकयोः शङ्कतलयोर्द्वयोरपि भेदे भुजान्तरमग्रान्तरतुल्यं
शङ्कतलान्तरतुल्यं वा स्यात् ।
` ननु खगुणाङ्गुलपञ्चदशाङ्गुलभाकर्णकालयोर्वास्तवाग्रा भिन्नत्वेऽपि कथं मया
तुल्यत्वमभ्युपगतं तदनभ्युपगमे च यावदेव भुजान्तरं तावदेव शङ्कतलान्तरमिति
कथं सिद्धयेदिति चेत् । अत्रोच्यते । यदा षष्ट्कृतगञ्जतुल्यापमज्या तस्मिन् काले
भाकर्णः खगुणाङ्गुलोऽस्य याम्यो भुजस्त्र्यङ्गुलो दृष्टः ।।
पुनर्यदा कालान्तरे षट्कृतगजतुल्यापमज्याभूत्, तस्मिन्नपि काले पञ्चदशाङ्गुलः
कर्णं उत्तरो भुजोऽस्याङ्गलपञ्चदशाङ्गलभाकर्णकालयोर्वास्तवाग्रैक्यम् । अग्रैक्ये' तु
यावदेव भुजान्तरं तावदेव शङ्कुतलान्तरमिति युक्तम् ।
यद्वैकस्मिन्नपि दिवसे खगुणाङ्गलपञ्चदशाङ्गलभाकर्णकालयोस्तदग्रान्तर
मतिस्वल्पमुत्पद्यते । यस्मिन् गृहीते त्यक्ते वाँ पलभाङ्गुलषैष्ट्यंशेऽप्यन्तरं न पततीत्यग्रा
तुल्यत्वमभ्युपगम्यत इति न किञ्चिद् बाधकम् । प्रकृतेऽग्रान्तरतुल्यभुजान्तरेणैन्द्रया
श्चालनं सम्यगुप्तम्।
• नन्वेवमप्युदयास्तसूत्रं सिद्धं स्यान्न प्रागपरसूत्रं, सूत्रादग्रान्तरे ततः प्राचीचिह्न
मिति वक्ष्यते । तेनोदयास्तसूत्रादग्राङ्गलानि दत्त्वा प्रागपरसूत्रं स्यात् । तत्कथमुच्यते ।
उदयास्तसूत्रमेव प्रागपरसूत्रमिति । "
किञ्च मिथुनान्ताहोरात्रक्षितिजसम्पाताद्धन्वन्ताहोरात्रक्षितिजसम्पातावधि
त्भाग्रं यत्र विशत्यपैति च ततस्तत्रापरैन्द्रयौ दिशावित्यनेनानेकानि प्रागपरसूत्राणि
स्युः, तेषां मध्ये कस्मिन् प्रागपरसूत्रे मध्यसूत्रं दत्त्वा कुण्डादिकं कार्यमिति ।
अत्रोच्यते । सर्वेष्वप्युदयास्तसूत्रेषु मध्यसूत्राणि प्रसार्यं कुण्डानि यदि क्रियन्ते तदा
सर्वाण्यपि कुण्डानि तत्तत्प्रदेशावच्छिन्नसममण्डलमध्यसूत्रापरपर्यायप्रागपरसूत्रमध्ये
केन्द्राण्येव भवन्तीति सर्वमनवद्यम् ।
केन्द्रस्थानं द्रष्टुः स्थानमिति प्रकल्प्य केन्द्राद्व्यासाद्धेन वृत्तं कार्यम् ।
तस्मिन् वृत्तपरिधौ केन्द्रस्थशङ्कोर्यत्र भाग्रं तस्माद्भुजाङ्गुलतुल्येऽन्तरकेन्द्रस्थस्य प्रागपरसूत्र
मिति युक्तम् । भाग्रं यत्र विशत्यपैति चेत्यनेन यत्सिद्धं प्रागपरसूत्रं तत् खलु वृत्तकेन्द्र
स्थद्रष्टुः कालान्तरीयमुदयास्तसूत्रमेव । यदा त्वेतस्यैवोदयास्तसूत्रस्य *मध्ये द्रष्टुः
स्थानमिति कल्प्यते तदाऽस्य प्रागपरसूत्रतां को नाम निवारयेत् । द्रष्टुः स्थानकल्पनं
तु कुण्डादिस्थापनेनैवेति स्पष्टम् । अत एव सौरभाष्ये प्राचीसाधनप्रकारैभिन्नेष्व
वगतेषु प्राचीसूत्रेषु ॐ वास्तवं कीदृशं प्राचीसूत्रमित्याशङ्क्य प्राच्याः विस्तृत्यायामयो
१. अयमंशो नास्ति ग पु० । -
२. मध्यमिति क ख पु० मध्य इति च ग पु० ।।
३. सनेषु इति ग पु० ।