पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/198

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
त्रिप्रशनाधिकारः 

  अपमजीवयोविवरमित्यत्र भिन्नगोलस्थयोः क्रान्तिज्ययोयोंगे क्रियमाणेऽ

न्तरं भवतीति स्पष्टमेव । 'धनर्णयोरन्तरमेव योग:' इत्युत:। यदोदये सावनकक

दिस्थः सूर्यस्तदास्य छाया मकराद्यहोरात्रवृत्तपश्चिमक्षितिजसम्पाते प्रविशति ततोऽस्त

मनकाले धन्वन्ताहोरात्रपूर्वक्षितिजसम्पाताद्दक्षिणतः पूर्वक्षितिजे निर्गच्छतीति पश्चिम

पूर्वचिह्नयोरेकसूत्रस्थत्वं प्रत्यक्षतो न दृश्यत एव । अपेक्षिता चैकसूत्रतेति सूर्योदया

स्तकालीनाहोरात्रवृत्तान्तररूपाग्रान्तरेण पश्चिमचिह्न पूर्वचिह्न वा चालनीयम् । यत्र

प्रविशति तत्र पश्चिमचिह्नमित्यवधारितेऽस्य समसूत्रस्थं कुत्र पूर्वचिह्नमित्यपेक्षिते

निर्गमावगतपूर्वचिह्ममयनदिश्यग्रान्तरेण चालनीयम् । यत्र भाग्रमपैति' तत्र पूर्वचिहू

मित्यवधारितेऽस्य पश्चिमचिहूं समसूत्रस्थं कुत्रेत्यपेक्षिते प्रवेशेनावगतपश्चिमचिहू

मग्रान्तरेणायनविपरीतदिशि चालनीयम्। एवं कृते समसूत्रता गोले प्रत्यक्षत उप

लभ्यते । चालनस्यायनक्रमलाभार्थमयनदिश्यैन्द्री चालिता स्फुटेत्युक्तम् ।


 ननु सूर्योदयास्तकालयोरेवाग्रान्तरतुल्यं चालनं युक्तमन्यदा तु भुजान्तरतुल्यं

चालनं कस्मान्न कृतमिति चेत्, उच्यते । भुजान्तरस्य लघुक्षेत्रे सर्वदाग्रान्तरतुल्यत्वान्न

कृतमिति। तथाहि-सौम्याग्रकया युक्ता सौम्या पलभा सौम्यो भुजः । याम्याग्रकया

वियुक्ता सौम्या पलभा सौम्यो भुजः । सौम्यपलया वियुक्ता याम्याग्रा दक्षिणो भुजः ।


  • 'त्रिभज्याहताकाँग्रका कर्णानिघ्नी भवेत्कर्णावृत्ताग्रका व्यस्तगोला ।

 
 पलच्छायया सौम्यया संस्कृता स्याद्भुजः' ॥


                                               इति वक्ष्यते ।          

 संस्कारस्त्वेकदिशोर्योगो भिन्नदिशोरन्तरमिति प्रसिद्धः - एवं सिद्धयोः प्रवेश

निर्गमकालीनभुजयोरन्तरन्तु भुजयोरेकान्यदिशोरन्तरमैक्यमिति कार्यम्। तत्र याम्ये

गोले सौम्यभुजयोरन्तरे प्राप्ते पलभयोस्तुल्यत्वान्नाशेनाग्रान्तरतुल्यं भुजान्तरम् ।

एकस्य याम्यगोलस्थसौम्यभुजस्यान्यस्योत्तरगोलस्थसौम्यभुजस्यापि विवरे—


' संशोध्यमानं स्वमृणत्वमेतीत्यनेन' पलभयोर्नाशे जाते भिन्नगोलस्थाग्रा

योगतुल्यमेव भुजान्तरमुत्पद्यते । एवमेकस्य याम्यगोलस्थसौम्यभुजस्यान्यस्योत्तरगो

लस्थदक्षिणभुजस्य योगे प्राप्ते ‘धनर्णयोरन्तरमेव योगः' इति पलभानाशे

जातेऽग्रायोगतुल्यं भुजान्तरम् । एवं सौम्ये गोले याम्योत्तरभुजयोरैक्ये प्राप्ते

पलभयोस्तुल्यत्वान्नाशेऽग्रान्तरतुल्यमेव भुजान्तरम् । छायाप्रवेशनिर्गमकालयोः

ग्रान्तरयोगतुल्यावेवोत्पद्यते ।

  • 'भाकणें खगुणाजुले किल सखे याम्यो भुजस्त्र्यड्रलोऽ


 न्यस्मिन्पञ्चदशाङ्गुलेऽङ्गुलमुदग्बाहुश्च यत्रेक्षितः ॥"


१. मवैति इति ग पु० ।  २. सि० शि० ग० त्रि० ७२ श्लो०

३- सि० शि० ग० त्रि० ७५ श्लो० । ।

 सि०-२०