पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/197

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
सिद्धान्तशिरोमणौ ग्रहगणिते


इदानीमथवैकस्मादपि भाग्रतः । तच्चैवम्। अभीष्टकाले शङ्कोर्भाग्र चिह्नयित्वा तस्याश्छायाया वक्ष्यमाणप्रकारेण भुजं कोटि चानीय भुजकोटिमिते शलाके गृहीत्वा शडकुमूलाद्यथादिरगतां कोटिशलाकां छायाग्राद्वचस्तदिग्गतां भुजशलाकां च तथा भुवि न्यसेद्यथा शलाकाग्रयोः संयुतिः स्यात् । एवं कृते सति कोटिः प्राच्यपरा दिग्भवति । बाहुश्च याम्योत्तरा ।

  अत्रोपपतिः ।--अहोरात्रवृत्त इष्टानामुन्नतघटिकानामग्रे पूर्वाहूं सममण्डलेन यावदन्तरं तावदेवापराड़े तावतीनामिटघटीनामग्रे भवति। अतस्तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुपपद्यते। परं तत्कालान्तरेण तदर्कक्रान्त्यन्तरं तेनान्तरितं भवति । अतस्तत् सन्धेयम् ॥ तच्चैवम् । तस्मिन् काले यानि कर्णवृत्ताग्राङगुलानि पूर्वाह्वे, यानि चापराह्रो तेषामन्तरं कार्यम् । तत्र लाघवार्थ तत्कालक्रान्त्योरेव न्तरं कृतम् । ततोऽग्रान्तरकरणायानुपातः । यदि लम्बज्याकोटया त्रिज्याकर्णस्तदा क्रान्तिज्यान्तरेण किमिति । अत्र लब्धमग्रान्तरम् । ततोऽन्योऽनुपातः ॥ यदि त्रिज्याव्यासार्ध एतावदन्तरं तदा कर्णव्यासार्धे किमिति । अत्र तुल्यत्वाद्गुणकभाजकयोस्त्रिज्यानाशे कृते सत्युपपन्न 'तत्कालापमजीवयोस्तु विवरादित्यादि।' यद्युतरमयन वर्तत उत्तरतो-कें चलिते शङ्कीर्भाग्रे दक्षिणतो याति तदुत्तरतश्चालनीयम् । अत उपपन्नमैन्द्री स्फुटा चालितेति । भुजकोटीनामुपपतिरग्रे । तन्निवेशमात्रेण दिग्ज्ञानमिह दर्शितम् । ८-९ ।

 वा० वा०-इदानीं दिग्ज्ञानार्थमाह-वृत्तेम्भः सुसमीकृतक्षितिगत इति । तन्मत्स्यादिति। उदकेन समीकृतायां भूमावभीष्टप्रमाण वृत्तं विलिख्य तस्य केन्द्रे कल्पितद्वादशाङ्गुलं शङ्कं निवेश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाल्हेऽपराह्मो (च ?) यत्रे निर्गच्छति तत्रापरपूर्वदिशौ किल भवतः । नहि प्रवेशनिर्गमकालयोः क्रान्तिस्तुल्येति भाष्ये किल शब्दः प्रयुक्तः ।

 नन्वेकस्मिन्नहोरात्रवृत्ते इष्टानामुन्नतघटीनामग्रे पूर्वाह्रो सममण्डलेन यावदन्तरं तावदेवापराह्म तावतीनामिटघटीनामग्रे भवतीति तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुत्पद्यत एव क्रान्तिवैषम्येऽपीति चेन्मैवम् ।। क्रान्तिवैषम्येनाहोरात्रवृत्तभेदात् प्रवेशनिर्गमकालीनाग्रकयोर्भदसम्भवेन तत्कालीनप्राचीसूत्रयोरपि भेदसम्भवेन प्रवेशनिर्गमछायाग्रबिन्दुभ्यां दिग्ज्ञानस्यायुक्तत्वात् ।

 एवं स्थूलप्राचीज्ञाने सूक्ष्मप्राचीचिह्रज्ञानार्थमुपायमाह—तत्कालापमजीवयोरिति, भाकर्णस्तु भाकृतीनकृतिसंयुतेः पदमिति वक्ष्यते । लम्बज्याकोटौ त्रिज्याकर्ण क्रान्तिज्यान्तरकोटौ क: कर्ण इत्यग्रान्तरम् । तस्याङ्कलीकृरणायानुपातः--यदि त्रिज्यायाः छायाकृर्णाङ्गुलतुल्यान्यऽङ्गुलानि तदाग्रान्तरस्य किमिति त्रिज्ययोस्तुल्यत्वान्नाशे सर्वमुत्पद्यते । महाशङ्कीद्वादशाङ्कलतुल्यत्वकल्पनेन त्रिज्यायाः छायाकर्णाङ्गुलतुल्यत्वं युक्तम् । महाशङ्कीर्यदि द्वादशैवाङ्गुलानि तदा त्रिज्यायाः कानीति तदागतं स छायाकर्ण एव प्रत्यक्षत उपलभ्यते । लम्बज्याकोटौ त्रिज्याकर्णस्तदा स्वस्वापमज्याकोटौ क: कर्ण इत्यग्राद्वयमङ्गलात्मकमानीयान्तरे प्रासे उभयत्र गुणयोर्हरयोस्तुल्यत्वेन क्रान्तिज्यान्तरमेव छायाकर्णगुणं लम्बज्याभाजितमिति लाघवेनोत्तम् ।