पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/195

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
सिद्धान्तशिरोमणौ ग्रहगणिते


 लग्नेऽल्पके तु युनिशान्स शोध्यस्तात्कालिकाकदसकूच कालः ।
 चेत् सावनाः प्रष्टुरभीष्टनाडयस्तदैव तात्कालिकतिग्मरश्मेः ।। ६ ।।
 आदयों यदेष्टा घटिका विलग्नं कालश्व तत्रौदयिकात् सकृच।।।

 वा० भा०--अर्कस्य प्राग्वद्भोग्यकालः साध्यः । लग्नस्य सायनांशस्य भुक्तकालः साध्यः ॥ तयोरैक्यमकदिग्रतो लग्नपर्यन्तं ये मध्ये राशयस्तेषामुदयाश्च क्षेप्यास्तत्रैव । एवं लग्नात् कालो भवति । अत्र यदैकराशौ लग्नाकर्णौ भवतस्तदा तयोरन्तरांशैः स्वोदयं संगुण्य त्रिशता भजेत् ॥ फलमिष्टकालः स्यात्, परं यद्यकल्लिग्नमधिकम् ॥ यद्यल्पं तदा स कालोऽहोरात्राच्छोध्यः । शेषमिष्टकालः स्यात् । अत्रेष्टकालसाधनेऽर्कस्य भोग्यमौदयिकादेव क्रियते । (यतः) कालज्ञानात् तात्कालिकत्वमर्कस्य कार्यम् । अतः स्थूलः काल आयाति । अनेन कालेन तात्कालिकमकं कृत्वा मुहुः कालः साधयितुं युज्यते । परं यदि प्रष्टुः सावनघटिका इष्टाः । एतदुक्तं भवति । उदयानन्तरमेतावतीस्वर्कसावनघटिकासु कीदृग् लग्नं भवतीत्येतदभीष्टं तदैव तात्का लिकाकल्लिग्न साध्यते । तदैव लग्नादसकृत् काल: । यदा पुनरिटघटिका आक्ष्यस्तदौदयिकादेवार्काल्लग्नं लग्नात् कालः सकृच्च ।

 अत्रोपपत्तिः--सुगमा । तात्कालिकीकरणकारणता गोले कथिता व्याख्याता च ।॥५-६३ ।।

 वा० वा०—लग्नात् कालानयनमाह—'अर्कस्य भोग्य इति । यदा अर्कलग्ने राश्यन्तरस्थे भवतस्तदार्कस्य भोग्यस्तनुभुक्तयुक्त इति कालः समायाति ।

 यदा त्वेकराशिस्थौ लग्नाकों तदा लग्नात्कालानयनमाह-यदैकमे लग्नरवी तदेति। अकादधिके लग्ने रव्युदयात्काल: समायाति। यदाकदल्पं लग्नं तदा रात्रीष्टिकाल इत्याह-लग्नेऽल्पके तु द्युनिशात्स शोध्य इति ।

 ननु तात्कालिकार्कभोग्ये तनुभुक्तकाले मध्योदयकाले च संयोजिते सावनेष्टघटीज्ञानं, तद्ज्ञाने च तात्कालिकार्कज्ञानमिति परम्पराश्रयापत्तेर्दुर्गमं लग्नात्सावनघटीज्ञानमित्यत आह-तात्कालिकाकदसकृच्च काल इति । अत्रायमभिसन्धिः । तावदौदयिकाकदेव भोग्यकालमानीयेष्टकाल: साध्यः । ततस्तेन कालेनार्क तात्कालिक कृत्वा तात्कालिकार्कभोग्यकालमानीयेष्टकालः साध्यः । पुनरनेनेष्टकालेनौदयिकार्क तात्कालिक कृत्वा तस्माद् भोग्यकालेनेष्टकालः साध्यः । मुहुर्यावदविशेषेण स्थिरीभूतो भवति तावत्साध्यः । अत्र गणिते सर्वत्रासकृत्प्रकार एव परस्पराश्रितत्वे शरणमिति सोऽप्यत्रादृत इति युक्तम् । अाचार्येणापि परस्पराश्रितत्वमसकृत्प्रकारे तन्त्रमिति गोले ‘मिथः संश्रिते मान्दशैघ्ये हि तेनासकृत्साधित' इति ग्रन्थेन स्पष्टीकृतमेव ।

 व्तात्कालिकाकॅण युतस्य राशेरेतस्याकस्य भोग्य इत्यस्य च विषयविवेकमाहचेत्सावना इति । अाक्ष्य इति ॥ ५-६ ।।