पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/194

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४९
त्रिप्रश्नाधिकारः १४९


मिष्टकालपलेभ्यः ६०० शोधितो जातम् ४३३॥ एवं कृते कन्यावधिः शुद्धो जातः । अस्मादपि तुलोदयेऽ ३३५ स्मिन् शोधिते जातं ९.८ एतावता तुलावधिः शुद्धः । तत इदं त्रिशता सङ्गुण्य वृश्चिकोदयेन भक्त लब्धांशाः ॥८॥३१॥१८॥ एतेष्वंशेषु ॥८॥३१॥८॥। तुलावधावस्मिन् ॥६॥१२॥३१॥१८ योजितेषु जातं स्पष्टं लग्नं भवति । यद्वा येनाशुद्धराश्युदयेन लब्धांशाः साध्यन्ते तद्राशावेव लग्नमिति लाघवेनाशुद्धपूर्वेभंवनैरजाद्ययुक्त तनुः स्यादित्युच्यते ।

 अत्र प्रत्यंशं ज्योत्पत्तिप्रकारेण जीवास्ताभ्यो द्युज्याश्च संसाध्य 'मेषादिजीवास्त्रिगृहद्युमौव्य क्षमाहताः स्वस्वदिनज्यये' त्यादिना प्रत्यंशानामुदयाः साध्यास्तैरुदयैः साध्यमानं लग्नमतीव सूक्ष्मं भवति ।

 मेषादिजीवा इत्यत्र वासनान्यथोच्यते—*'एकस्य राशेर्महतीज्यकाया द्वयोस्त्रिभस्यापीति’ प्रथमप्रकारेणोदय एकस्य राशेः साध्यते । तत्रेष्कराशिज्या जिनज्यागुणा त्रिज्यया भाज्या प्रथमराशे: क्रान्तिज्या भवति । एकराशिज्याजिनज्याघातस्त्रिज्यया भाज्यः क्रान्तिज्येति जातम् । अस्याः वगाँ जात एकराशिज्यावगर्गे जिनज्यावर्गभक्तः । अयं क्रान्तिज्यावर्ग एकराशिज्यावर्गाच्छोध्यः । समच्छेदविधानेन ‘योगोऽन्तरं तुल्यहरांशकानामित्युतः' । तत्र गुण्यगुणकयोः कामचार इति एकराशिज्यावर्गगुणोजिनज्यावर्ग एकराशिज्यावर्गगुणातू त्रिज्यावर्गाच्छोध्यस्त्रिज्यावर्गेण भाज्य इति जातम् । ततोऽस्य मूलं त्रिज्यया गुणनीयमित्ययमेव त्रिज्यावर्गेण गुणनीयः । तत्र गुणहरयोरन्तरे वा कृते तुल्यफलत्वात् । जिनज्यावर्ग एव त्रिज्यावर्गाच्छोधिते त्रिभद्युज्यावर्ग ‘एवावशिष्यते । त्रिभद्युज्यावर्ग एकराशिवर्गेण गुणनीय इति सिद्धम् । ततोऽस्य मूले गृहीते एकराशिज्या त्रिभद्युज्यागुणा भवति । स्वस्वद्युज्याहरणं प्रथमप्रकारेणैव सिद्धमिति सर्वमुत्पद्यते । अत्रैकराशिरित्युदाहरणदर्शनार्थमुक्तम्। तस्मात् 3'मेषादिजीवास्त्रिगृहद्युमौव्यं क्षुण्णा हृताः स्वस्वदिनज्यया' इति प्रथमप्रकारादेकस्यराशेर्महतीज्यकायेत्यादे: खण्डक्षोदेन प्रकार उत्पद्यते । 'तनुः स्यादयनांशहीन' मित्यत्र 'संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इति सूत्रेणैवायनांशा हीनाः कार्याः ।। *‘युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ' इत्यत्रापि क्षयात्मकायनांशेषु 'धनणयोरन्तरमेव योगः:' इति योगः कायः । -

 'इष्टासु सङ्घादपनीय भोग्यानित्यत्र' भोग्यासवो बहुत्वेन यदा न शुद्धयन्ति तदा कथं लग्नसाधनमित्यत आह—‘इष्टासवोऽल्पा यदि भोग्यकेभ्यः'। इति ।स्पष्टम् ॥२-४॥

इदानों लग्नात् कालानयनमाह

अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाढयः समयो विलग्नात्।
यदैकमे लग्नरवी तदा तद्भागान्तरध्नोदयखाग्निभागः ।।

। ५ ।


१. सि० शि० ग० स्पष्टा० ५७ श्लो० । २. सि० शिo ग० स्पष्टा० ५४ श्लोo ।

R. सि० शि० ग० स्प० Կ(9 श्लो० । ४. सि० शि० ग० प० ४७ श्लो० ।