पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
सिद्धान्तशिरोमणौ ग्रहगणिते


मेषादयोऽपि स्वीक्रियन्ता'म् । तथा मन्दशीघ्रकेन्द्रयोरपि मृगकक्र्यादिव्यवहारदर्शनात् केन्द्रराशयोऽपि स्वीकार्याः । तथैवाभ्युपगमे मेषादिशब्दो नानार्थः स्यात् । शेषराशिरित्युक्ते कर्थ लोकाना सन्देहो न भवेत् को मेष इति । अन्याय्यमनेकार्थत्वं मेषादिशब्दानां तस्मान्मुख्यमेषादिप्रयोगो रेवत्यन्तमादि कृत्वा नवनक्षत्रचरणपर्यन्तं यत्स्थानं तत्स्थानवाचक: । एवं वृषादिशब्दोपि। केन्द्रादिषु मेषादिराशिप्रयोगो गौणः । एकद्वयादिसङ्ख्यासादृश्येन प्रयुज्यत इति राशीनां द्वैविध्यमप्रसिद्धम् ।

 नन्वभ्राद्रिभूपा इत्युदयासवः कस्येति चेत् । उच्यते । नाडीमण्डलक्रान्तिमण्डलसम्पातमवधीकृत्य क्षेत्राणि प्रवृत्तानीति क्रान्तिपाताडू यो राश्यडूस्तमवधीकृत्य त्रिशदंशपर्यन्तमग्रे यो राश्यङ्कस्तस्येत्यवधारय । ।

 यद्यष्टादशायनांशा धनभूतास्तदा मीनराशेद्वादशमितांशेषु गतेषु प्रथमराश्युदयप्रारम्भः । मेषराशेर्द्वादशमितांशेषु निवृत्तिरिति त्रिशदंशात्मकराशेरुदयासव इति स्पष्टम् ।। क्रान्तिपाताङ्कात्प्रथमोऽयं राशिरिति सायनो मेषराशिरित्युच्यते । त्रिशदंशात्मकमुख्यमेषराशौ द्वादशभागपर्यन्तं सायनमेषराश्युदयेन कालसाधनं कार्यम् । ततोऽष्टादशभागेषु सायनवृषोदयेन कालसाधनम् । एवं सर्वेष्वपि राशिषु अदत्तायनांशात् तात्कालिकाकाद्यदि लग्नं साध्यते तदा लग्नमयनांशशोधनं विनापि स्पष्ट सिद्धयत्येव । यदा तात्कालिकाक राश्याद्यः ॥ ४ ॥ २७ ॥ ० ॥ ० ॥ अयनांश: ॥ १८ ॥ इष्टकाली घटिकाः दश १० तदा यथोक्तप्रकारेण जातं लग्नम् ॥ ६ ॥ २० ॥ ३१ ॥ १८ ॥

 इदमेव लग्न प्रकारान्तरेण साध्यते । तत्र मेषादिराशीनां स्वीयसायनोदयावधयः ।

 मे०l०॥१२॥ वृ०१॥१२ मि० २||१२ क० ३॥१२ सि० ४1१२ क० ५॥१२ तु० ६॥१२ वृ० ७॥१२ ध० ८॥१२ म० ९॥१२ कु'० १०॥१२ मी० ११॥१२ यस्य ग्रहस्य लग्नस्य वा भुक्तभोग्यकालः साध्यते स ग्रहो *लग्नं वा यस्मिन् राश्यादि विभागे वर्तते तस्मात् सन्निहितावधिः पृष्ठस्थः शोध्यो भुक्तांशा भवन्ति । स ग्रहो लग्नं वाग्रिमावधे सन्निहिताच्छोध्यो भोग्यांशास्तस्य भवन्ति । एवं भुक्तभोग्यांशाः सन्निहिताग्रिमावधिर्यस्मिन् राशी तद्राश्युदयेन गुणनीयास्त्रिशता भाज्याः भुक्तभोग्यकालौ भवत इत्यवधार्यम् । शेषं पूर्ववदेव ।

 तत्रास्मिन् उदाहरणे रवेर्भोग्यकालः साध्यते-अस्मिन् रवौ ॥४॥२७॥l० ॐ॥०॥ अग्रिमावधेरस्मात् ॥५॥१२॥०॥०॥ च्छोधिते जाता रवेभोंग्यभागाः पञ्चदश ।।१५॥००॥ तत्राग्रिमावधिः कन्याराशा*विति कन्योदयेन गुणनीयः ।

 तत्रास्मिस्तीर्थराजे प्रयागे पादोनरसाङ्कलाक्षभे देशे कन्योदयमानेनानेन ॥३३५॥ गुणितास्त्रिशद्भक्ताः जातो भोग्यकालोऽर्कस्य पलाद्यः ।॥१६७॥३०॥ अय


१. क्रियतामिति ग पु० । २. लग्नो इति क ख ग पु० । ३. ७ क ख पु० । ४. राश्यदिति, इति ग पु० ।