पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/191

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
सिद्धान्तशिरोमणौ ग्रहगणिते


‘पदे 'जुहोतीत्यनेनाहवनीये जुहोतीतिवत्' । सामान्यशास्त्रेण यः सार्वत्रिकः प्रत्ययः *स बाध्यते । वस्तुतस्तु सामान्यशास्त्रं विशेषशास्त्रविषयं परिहृत्यैव प्रवर्त्तते । प्रकृते तुतात्कालिकाकॅण युतस्य राशेरेतस्य चेत्सावना: प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मेरित्यनेनॐ पाक्षिकत्वं स्फुटं द्योतितमिति नित्यवच्छ्रवणमेव दुर्लभम् ॥ नात्र सामान्यविशेषन्यायप्रसति:४ ॥

 [ "तस्मादौदयिकाकन्निाक्षत्रघटीभिर्लग्नं साध्यमिति मूलयुक्तिः । अथान्यथोच्यते-औदयिकाकभोग्य ] कालः शोधकः । नाक्षत्रघटोमय इष्टकालः शोध्यः । केवले शोधके केवलशोध्यादपनीते यावदशिष्यते तावदेवेष्टी न केवलशोधके इष्टी न केवलशोध्यादपनीतेऽवशिष्यत इति प्रसिद्धम् । राशिकलाभिरुदयासवो लभ्यन्ते तदा गतिकलाभिः किमिति सूर्योदयद्वयान्तराले षष्टिसावनघटीनां

[*तदन्तर्वाँतनाक्षत्रघटीनामन्तरं भवति । यतो गोलेप्युक्तम्

रवि°स्ततः स्वोदयभुक्तिघातात् खाभ्राष्टभिर्लब्धसमासुभिश्च । समा°गतासु संयुता रवेस्तु षष्टिनाडिका । । स्फुटं द्युरात्रमिति ।

 षष्टिसावनघटीभिरेतावन्नाक्षत्रमधिकं तदेष्टसंावनघटीभिः किमिति जातमिष्ट। सावनघटीनां तदन्तवाँतनाक्षत्रघटीनां चान्तरम्। इदमेवौदयिकाकभीरयकालतात्का लिकार्कभोग्यकालयोरन्तरतुल्यम् ।

 षष्टि*घटीभिर्गतिकलास्तदेष्टसावनघटीभिः किमिति जातमौदयिकाकतात्कालिकार्कयोः कलाद्यमन्तरम् ।

 द्वितीयोऽनुपातः-राशिकलाभिरुदयासवस्तदान्तरकलाभिः किमिति जातमौदयिकाकतात्का(लिका ) कभोग्यकालयोरन्तरं सावनघटीनां तदन्तर्वतिनाक्षत्रघटीनामन्तरतुल्यमिति प्रत्यक्षसिद्धम् । एतावदेवेष्टं कल्पितम् । इदमिष्टं नाक्षत्रघटीभ्यो यावदपनीयते तावत् सावना इष्टघटिका: '°भवन्ति । यावदौदयिकार्कभोग्यकालादपनीयते तावत्तात्कालिकार्कभोग्यकालो भवतीति सम्यगुक्तम् 'चेत्सावनाः प्रष्टुरभीष्टनाडद्यस्तदैव तात्कालिकतिग्मरश्मेः' इति । तस्मादिष्टघटिकाः सावनास्तात्कालिकाकोकरणेनैवमाक्ष्यो भवन्ति । ततो नाक्षत्रोदय**शोधने समजात्योरेवान्तरं भवति, ( इति ) सर्वं शोभनम् । यदप्युक्ततं प्रष्टुः सावनघटीज्ञानमेव न भवतीति कथं ता लग्नार्थमिष्टघटिकाः गृहीतुं शक्यन्त इति ।


१. होतिघ्य'ग पु०॥ २. समाध्यवे इति ग पु० । ३. रश्यरि ग पु० । ४. प्रशक्ति इति क ख पु० । ५. अयमंशो ग पुस्तके नोपलभ्यते । ६. कोष्ठान्तर्गतोंऽशो ग पुस्तके नास्ति। ७. सि० शि० गो० मध्य० ५ श्लो० । ८. सि९ शि० गो० मध्य० ६ श्लो० । ९. घटिभि इति क ख ग पु० । १०. भवतीति ग पु० ॥ ፳፻. शोघ्यने ग पु० ॥