पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
શ રૂપ
स्पष्टाधिकारः

इदानीं येऽस्योदयान्तरस्य वासनां न बुध्यन्ति तेषां प्रतीत्यर्थमन्यदप्याह

चेत् स्वोदयैः स्फुटरवेरसवः कृतास्ते
विश्लेषिताश्च यदि मध्यरवेः कलाभिः ।
बाह्रन्तराख्यमुदयान्तरको चराख्यं
कमंत्रयं विहितमौदयिके तदा स्यात्। ६४ ॥

 वा० भा० -यदि स्फुटरवेः स्वोदयेन भुक्तासवः कृता मेषादिस्वोदयैश्च युतास्तेषामसूनां मध्यमार्ककलानां च यदन्तरं तेन भुक्तिर्गुणिता द्युनिशासुभिर्भक्ता । यद्यसवोऽधिकास्तदा फलं ग्रहे स्वमन्यथा ऋणम्। एवं कृते सति भुजान्तरमुदयान्तरं चराख्यं च कर्मत्रयमपि कृत स्यादौदयिके ग्रहे। ६४ ॥  इदानी प्रकारान्तरेणोदयिककर्माह--

मध्याद्रवेरयनभागयुताद्द्विनिघ्नाद्
दोज्य लघुगीतिगुणा खनगाश्वि २७० भक्ता ।
 स्वर्णं ग्रहे युगयुजोः पदयोर्विलिप्तास्वेवं
स्फुट खलु भवेदुदयान्तरं वा । ६५ ॥

 वा० भा०-मध्यमार्कस्य सायनांशस्य द्विगुणितस्य या लघुखण्डकैर्दीज्य तया गुणिता ग्रहगतिः खससयमैः २७० हृता फलं विकलादि ग्रहे धनम् । एवं युग्मपदस्थितेऽर्के । अयुग्मपदस्थिते त्वृणम् ॥

 अत्रोपपत्तिः--क्रान्तिवृत्तस्य चत्वार्यपि पदानि पृथक् पृथक् पञ्चदशभिः पञ्चदशभिर्घटिकाभिरुद्गच्छन्ति । परं नैकैको राशिः पञ्चभिरत उदयान्तरकर्म पदमध्यं यावदुपचीयते । अत एव पदान्तेषु तस्याभाव । पदमध्येषु परमता । यदत्र निरक्षोदयैः कर्म दशितं तद्बालावबोधार्थम् । तत् स्थूलम् । उदयानां स्थूलत्वात् ॥ अत एवार्यभटादिभिः सूक्ष्मत्वार्थं वृक्काणोदयाः पठिताः ॥ इदमुदयान्तरं कर्म यथा सम्यग्भवति तथोच्यते' ॥ मध्यमार्कस्य सायनांशस्य दोज्र्यों द्युज्यां च कृत्वा तया द्युज्यया सा दोष्ज्र्या भाज्या मिथुनान्तझुज्यया गुणनीया । तस्या धनुषो येऽसवस्तैर्मध्यमाकस्य सायनांशस्य भुजकला ऊनाः सत्यः स्फुटा अन्तरासवो भवन्ति । तैरुदयोऽन्तरित इत्यर्थः । एवं पदमध्ये षड्वशतिः २६ पलानि किञ्चिदधिकानि भवन्ति । तानि ज्याप्रकारेण साधयितुमकों द्विगुणितः । द्विगुणितस्यार्कस्य यावद्भुजः क्रियते तावत्


१. अत्र बापूदेवः—

ध्यातू खरांशोरयनांशयुक्ताद्द्विघ्नाद्भुजज्या बृहती विनिघ्नी ।
परापमव्यस्तगुणेन दृग्घ्न्या द्युजीवयासा ग्रहभुक्तिनिघ्नी ।
हृता द्युरात्रासुभिरासलिप्सा ग्रहे विधेयाः स्वमृणं क्रमेण ।
सहस्ररश्मी युगयुक्पदस्थे सुसूक्ष्ममेवं ह्यदयन्तरं स्यात् ।