पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/165

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
सिद्धान्तशिरोमणौ ग्रहगणिते

स्फुटा स्यात् । तात्कालिक्या भुक्त्या चन्द्रस्य विशिष्ट प्रयोजनम् । तदाह-'समीपतिथ्य न्तसमीपचालनमिति' । यत्कालिकश्चन्द्रस्तस्मात् कालाद्गतो वा गम्यो वा यदासन्नस्तिथ्य न्तस्तदा तात्कालिक्या गत्या तिथिसाधनं कर्तुं युज्यते ॥ तथा समीपञ्चालनं च । यदा तु दूरतरस्तिथ्यन्तो दूरचालन वा चन्द्रस्य तदाद्यया स्थूलया कतु युज्यते । स्थूलकालत्वात्। यतश्चन्द्रगतिर्महत्वात् प्रतिक्षणं समा न भवति । अतस्तदर्थमयं विशेषोऽभिहितः ।

 अथ गतिफलवासना। अद्यतश्वस्तनग्रहयोरन्तरं गतिः । अत एव ग्रहफलयोरन्तरं गतिफलं भवितुमर्हति ॥ अथ तत्साधनम् ॥ अद्यतनश्वस्तनकेन्द्रयोरन्तरं केन्द्रगतिः । भुञ्जज्याकरणे यड्रोग्यखण्डं तेन सा गुण्या शरद्विदलॅभञ्ज्या । तत्र तावत् तात्कालिकभोग्यखण्डकरणायानुपातः । यदि त्रिज्यानुल्यया कोटिज्ययाद्य भोग्यखण्ड शरद्विदलतुल्यं लभ्यते तदेटया किमित्यत्र कोटिज्यायाः शरद्विदला २ ५ गुणस्त्रिज्या हरः । फल तात्कालिक स्फुटभोग्यखण्ड तेन केन्द्रगतिगुंणनीया शरद्विदलैर्भाज्या । अत्र शरद्विदन्त्रमितयोगुंणकभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः कोटिज्या गुणस्त्रिज्या हरः स्यात् ॥ फलमद्यतनश्वस्तनकेन्द्रदोज्र्ययोरन्तरं भवति ॥ तत्फलंकरणार्थ स्वपरिधिना गुण्यं भांशैः ३६० भज्यम् । पूर्वं किल गुणकः कोटिज्या सा यावत् परिधिना गुण्यते भांशैः ३६० ह्रियते तावत्कोटिफलं जायत इत्युपपन्नं ‘कोटीफलघ्नी मृदुकेन्द्रभुक्तिरित्यादि० । एवमद्यतनश्वस्तनग्रहफलयोरन्तरं तद्भुगते: फल कक्र्यादिकेन्द्रे ग्रहणफलस्यपची' यमानत्वात् तुलादौ धनफलस्योपचीयमानत्वाद्धनम्। मकरादौ तु धनफलस्यापचीयमानत्वान्मेषा दावृणफलस्योपचीयमानत्वादृणमित्युपपन्नम् ।। ३५-३८ ॥

 वा० वा०-इदानीं गतिस्पष्टीकरणमाह-'दिनान्तरस्पष्टखगान्तरमिति' । इयं स्थूला गतिः । प्रतिक्षणं चन्द्रकोटिफलस्यान्यथात्वेन गतेरप्यन्यादृशत्वमुचितमिति सूक्ष्मां गतिमाह—'कोटीफलघ्नी मृदुकेन्द्रभुक्तिरिति ।' अद्यतनश्वस्तनग्रहयोरन्तरं गतिः तत्र मध्यमयोरन्तरं मध्यमा सा तु ज्ञातैव । मन्दस्पष्टयोरन्तरं मन्दस्पष्टा साध्यते ॥ तत्र मन्दफलयोरेवान्तरं लाघवा'दुगतेर्मन्दफल साध्यते। अद्यतनश्वस्तनकेन्द्रभुजयोरन्तर केन्द्रगतिरेव

 अथ भुञ्जज्यान्तरं साध्यते । यदि त्रिज्या तुल्यया कोटिज्यया तत्त्वाश्वितुल्यकेन्द्रगतेस्तत्त्वाश्वितुल्यं ज्यान्तरं भवति तदाभिमतकोटिज्ययेष्टकेन्द्रगतेः किमित्यन्योन्यपक्षानयने फलयोः पश्वराशिकेन कृते केन्द्रगतिरिष्टकोटिज्या गुण्या त्रिज्यया भाज्या जातमद्यतनश्वस्तनकेन्द्रभुजजीवयोरन्तरम् । इदं फलसाधनायान्त्यफलज्यागुणं त्रिज्यया भाज्यम् । तत्र तावदिष्टकोटिफलमेव भवतीति 'कोटीफलघ्नीमृकेन्द्रभुक्तिस्त्रिज्योद्भुतेति' शोभनमुक्तम्। यथा च सूर्योदये सूर्यस्य कियद्दिनमानमिति पृष्ट सायनार्कस्य यावान् भोग्यकाल: स च सषड्भसायनौदयिकार्कभुक्तकालयुक्तो *[मध्योदयैर्युक्तो]दिनप्रमाणं भवतीत्युच्यते ॥ इदं किल स्थूलम् । प्रतिक्षणं चरस्यान्यादृशक्त्वात्तात्कालिकं चरं दिनमानञ्च साध्यते तत्सूक्ष्ममुच्यते । यथा च ग्रहोदयलग्नादितात्कालिक साध्यते तद्वत्तात्कालिकी गतिरिति न किंचिद्बाधकम्।


R. वाहतेमं.इति क ख ग पु० ॥ २. अयमंशो ग पु० नास्ति ।