पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( . ) १. रत्नमालाटीकाकारो माधवः शके ११८५ भास्करव्यवहाराख्यस्योल्लेविं कृतवान् । २. रामाचार्यकृतविवाहपटलटीकायां भास्करस्र्यंको विवाहविषयकः श्लोकोऽपि मिलति । ३. 'शाङ्गीयविवाहपटले भास्करकृतस्य विवाहपटलस्योल्लेख: प्राप्यते'। अत इदं विनिश्चेतुं शक्यं यद् भास्करस्य मुहूर्तसम्बन्धी कश्चन ग्रन्थोऽवश्यमासीत् । भारकररचितं 'बीजोपनयनम् नामक पुस्तक मुद्रितमुपलभ्यते। ग्रहेष्वन्तरनिवारणायाचार्येण बीजकल्पना कृतेति तद्वाक्येनेंव स्पष्टं प्रतीयते । यथा ‘इदानीं ग्रहाणां बीजकर्माह'|' एतेनाचार्यस्य बीजसंस्करणमभीष्टमासीदिति स्पष्टं । परिचीयते । अस्य ठीका इदानीमस्यग्रहगणितगोलाध्यायात्म्कस्य टीका-१. मुनीश्वरस्य मरीचिभाष्यम् । २. गणेशदैवज्ञस्यशिरोमणिप्रकाशः।। ३. नृसिहस्य वासनावात्तिकम् ।। ४. बापूदेवशास्त्रिणः । संशोधनम् ।। ५. बुद्धिनाथशर्मणः टिप्पणीविवरणम् ।। ६. केदारदत्तजोशीशास्त्रिणो ग्रहगणिताध्यायस्य दीपिका (संस्कृतटीका), शिखा ( हिन्दी टीका ) च । ७. दुर्गाप्रसादद्विवेदिनो हिन्दीटीका उपलभ्यन्ते । - आप्रे० सूच्यनुसारमन्याष्टोकाः-१. लक्ष्मीदासस्य गणिततत्त्वचिन्तामणिः । २. विश्वनाथदैवज्ञस्योदाहरणात्मिका। ३. राजगिरिश्रवासिनः । ४. चक्रचूडामणे:, ५. महेश्वरस्य, ६. मोहनदासस्य, ७. लक्ष्मीनाथस्य, ८. वाचस्पतिमिश्रस्य च टीका: सन्तीति ज्ञायते । सैद्धान्तिको वैशिष्ट्यम् - आर्य-वराह-ब्रह्मगुप्त-लल्लाचार्यादिभिरनुक्तस्योदयान्तरकर्मण अादिस्रष्टा भास्कराचार्य एवासीदिति बहूनां ज्योतिविदां विचारः । किन्तु सिद्धान्तशेखरस्य प्रकाशनेनेदं स्पष्टं जातं यदिदमुदयान्तरकर्म प्रथमं श्रीपतिरेव ससर्जेति । तदीयं सूत्रश्च । १. भा० ज्यो० ३५१ पृ० । २. सि० शिo S.५ ट० ।