पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/121

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
सिद्धान्तशिरोमणि ग्रहगणिते


गुणा योज्याः ॥ तत्रावमघटिकानां त्रिषष्टिर्गुणकारः षष्टिभागहारः । तत्र गुणकभागहारौ त्रिभिरपवतितौ । गुणकस्थान एकविशति-२१ भागहारस्थाने विशतिः २० ॥ फलं दिनानि ॥ अत्र हराद्’ गुणको विशांशाधिकोऽतः ‘स्वीयनखांशयुताः क्षयनाड्यः क्षेपदिनानीत्युपपन्नम् ॥ 88

 इदानीमहर्गणानयनमाह ।

 चैत्रसितादिगतस्तिथिसङ्घः शोधितशुद्धिरधस्तु ? समेतः ॥१२॥

स्वीयकराभ्रतुरङ्ग-७०२ लवेन क्षेपयुतः कृतषट्कविभक्तः ।
लब्धदिनक्षयवर्जितशेषो रव्युदये घुगणोऽब्दपतेः स्यातू॥१३॥

 वा० भा०-चैत्रादेर्गततिथिसञ्चयः शुद्धिरहितस्त्रिष्टः कार्यः ॥ अन्तिमो द्विखतुरङ्गे७०२ भज्यः ॥ फलं मध्यस्थे क्षेप्यम् ॥ ततोऽनन्तरानीतानि क्षेपदिनानि तत्र क्षिप्त्वा स राशिश्चतुःषष्टया भाज्यः फलमवमानि ॥ शेषमवमशेषम् । चन्द्रानयनार्थ तत् पृथगनष्टं स्थाप्यम् अवमैरूनः प्रथमो राशिरहर्गणः स्यात् । स चाब्दपत्यादिः । यस्मिन् वारे यावतीषु घटिकास्ता एवाहर्गणावयवीभूताः ॥ यतस्तासु गतास्वब्दान्तो जातोऽभूत् । तदग्रतो दिनतुल्या वारा इति बुद्धिमता गणनीयम् ।

 । अत्रोपपत्तिः ॥ अत्र चैत्रादिगततिथयः शुद्धयूना अतः कृताः । यतोऽधिमासशेषतिथिभिः सावयवाभिरूनीकृताः सत्यो रव्यब्दान्तादग्रतो गृहीता भवन्ति । रव्यब्दान्तादूध्र्वमिष्टदिनोदयं यावद् द्युगणः साध्यः । अतोऽब्दानन्तराकोदयान्तरघटीतुल्येनाहर्गणाधोऽवयवेन भवितव्यम् ॥ अब्दान्तस्तु दिनाद्यस्य घटिकान्ते । अतः शुद्धितिथिषु सावयवास्ववमघटिका विशोध्य दिनघटिका यथोक्ता भवन्ति । एवं कृतेऽवमानयनं किञ्चित् सान्तरं स्यात् तत् क्षेपदिनानयनेन निरन्तरीकृतम् ॥ अवमानयनेऽनुपातः ॥ यदि कल्पतिथिभिः कल्पावमानि लभ्यन्ते तदाऽऽभिः किमिति ॥ एवमवमानि गुणश्चन्द्रदिनानि हारः । तत: सञ्चारः । यदि चन्द्रदिनहारेणावमानि गुणस्तदा चतुःषष्टया किमिति । चतुःषष्टया गुणितानामवमानां चन्द्रदिनहृतानां लब्धं रूपम् । शेषेण शेषमपर्वातितं जातं रूपम् । हारश्चापवतितो जातो द्विखशैलमितः.७.३ । अयं गततिथीनां गुणश्चतुःषष्टिहंरोऽतः समेतः स्वीयकराभ्रतुरङ्गलवेनेति सर्वं निरवद्यम् ॥ ११३-१३ ॥

 वा० वा०-इदानीमहर्गणानयनमाह।

 शोधनं शुद्धिः । चैत्रादेः सकाशाद् रव्यद्वान्तो यावतीभिः सावयवाभिस्तिथिभिः शुद्धयति तास्तिथय एव सावयवाः शुद्धिशब्देनोच्यन्ते । रव्यब्दान्तादूध्वँमिष्टदिनोदयं यावदहर्गणोऽपेक्षितः । तस्माच्चैत्रसितादिगतस्तिथिसङ्कः शोधितशुद्धिः कृतः । ननु केवला शुद्धिरेव चैत्रादिगततिथिभ्यो हातुं युज्यते नावमघटिकोना ॥ अवमघटिकोनशुद्धौ शोध्यमानायां ‘संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन केवलशुद्ध्यूनचैत्रादितिथिषु क्षयशेषघटिका योजिता भवन्ति तच्चायुक्तमित्यत आह भाष्यकारः । अतोऽब्दान्तानन्तराकोदयान्तरघटीतुल्येनाहर्गणावयवेन भवितव्यम् । अब्दा