पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/12

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( Y ) सर्वप्रथमाचार्यायभटेन विरचितो 'आर्यभटीयनामक:’ ग्रन्थो दृष्टिपर्थ समायाति । तदनन्तरं वराहमिहिरेण ‘पञ्चसिद्धान्तिका' विहिता । ततो ब्रह्मगुप्तस्य ‘ब्राह्मस्फुट। सिद्धान्तः? । तत्पश्चाल्लल्लस्य ‘धोवृद्धिदः’ तन्त्राख्यो ग्रन्थो ग्रहगणितगोलयोरस्ति । तत्पश्चादन्येऽपि ग्रन्था अन्य रचिताः सन्तीति । . : सिद्धान्तशिरोमण्याख्यस्यास्य ग्रन्थस्य तु प्रणेता भास्कराचार्य, तहिं कोऽसौ ۔ भास्कर इत्युच्यते । इदानीं भास्करद्वयस्य प्रसिद्धिरिति सर्वे जानन्येव। प्रथमभास्करः अस्य साम्प्रतमस्मार्क ग्रन्थत्रयाणा १. आर्यभटीयभाष्यम्, २. महाभास्करीयम्, ३. लघुभास्करीयञ्चेति परिचयो प्राप्यते । अय हि कुत्रत्य अासीदित्यसंदिग्... वक्तुं न पार्यते । यतोऽनेन स्वत: कुत्रापि स्त्ररचनायां स्वसम्बन्धे न किमपि लिखितम्। शङ्करबालकृष्णमहोदयेन त्वस्य चर्चाऽपि न कृता स्वभारतीयज्योतिषस्येतिहासाभिधे ग्रन्थे । महाद्दुःखास्पदं यत् प्रथमतो प्रथमभास्करस्य चर्चा न केनापि भारतीयेनापि तु इङ्ग्लॅण्डवास्तव्येन 'एच० कोलबूक’नाम्ना विदुषा १८१७ ई० वर्षे निबन्धे कृता । अनन्तरश्च श्री बी० बी० दत्तमहोदयेनाऽस्य विषये १९३० ई० वर्षे स्वनिबन्धे विस्तृतं विवेचनं कृतम् । पुनः १९३१ ई० वर्षे ‘ए शार्ट क्रानालाजी अव इन्डियन एस्ट्रा नामी’ नाम्नि ग्रन्थेऽस्योल्लेखः कृतः । सर्वतः पश्चात् १&६० ई० वर्षे लखनऊ-f श्वविद्यालयद्वारा 'महाभास्करीय-लवुभास्करीय'योराङ्ग्लानुवादव्याख्या. टिप्पण्यादि हितं प्रकाशन जातम्' । द्वितीयभास्करः प्रस्तुतग्रन्थकारो द्वितीयभास्कर इत्यत्र नास्ति विवादस्यावसरः । द्वितीयभास्करस्य वंशावली-जन्म-स्थान-कालरचनादिविषये स्वयमेव हि तेनाऽत्मीयपरिचयोऽस्य ग्रन्थस्य प्रशनाध्यायान्ते प्रदत्तः । यथा--- रसगुणपूर्णमहीसमशकनृपसमयेऽभवन्ममोत्पत्तिः ॥ रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः ॥* ... " . अनेन कथनेनाऽस्य जन्मकालः १०३६ शकः, १११४ ईसवीयवत्सरश्च सिद्धयति । १. ल० वि० प्र० महा० भू० । २० सि० शि० ५२४ पृ० ॥