पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/11

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३ ) तथा च वासनावातिके ‘गण्यते सङ्ख्यायते तद् गणितम्। तत्प्रतिपादकत्वेन तत्संज्ञ शास्त्रमुच्यते । तत्र व्यक्तेन स्पष्टेनोच्चावचजनप्रसिद्धमार्गेण सङ्कलनादिना यदुच्यते तद् व्यक्तम् । यावत्तावत्कालादिना सापेक्षबुद्धया गणितमव्यक्तम् । ग्रहकर्मणा ग्रहगणितम् । गोलेन वेधादिना ग्रहकर्म सवासनं गण्यत इति गोलाश्रितत्वाद् गोलगणितम् । अतो गणितचतुष्टयात्मकं गणितस्य व्यवहरन्ति, स एव सि. Iन्तः” इति । तथा चाहु:- •

    • व्यक्ताव्यक्तभगोलवासनमयः सिद्धान्त अादिरिति°° * अन्ये त्वेवमिच्छन्ति---यत्र कल्पादेर्ग्रहानयन स सिद्धान्तः । यत्र युगवष यनर्तुमासपक्षाहोरात्र-याम-मुहूर्त-नाडी-विनाडी-प्राण-त्रुट्यादीनां तथा सौरचान्द्रादिमासानां विवेकस्तिष्ठेत् स सिद्धान्तपदवाच्यः ।

अन्यच्च सिद्धान्तलक्षणी सिद्धान्तशेखरे*--- शतानन्दध्वस्तिप्रभृतित्रुटिपर्यन्तसमयप्रमाणं भूधिष्ण्यग्रहनिवहसंस्थानकथनम् ॥ ग्रहेन्द्राणां चाराः सकलगणितं यत्र गदितं स सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धविपुलैः ॥ अस्य लक्षणं वटेश्वरसिद्धान्ते त्वीदृशमस्ति । यथा समयमितिरशेषा सावनं खेचराणां गणितमखिलमुक्त यत्र कुट्टाद्युपेतम् । ग्रहभगणमहीना संस्थितिर्यत्र सम्यक् स खलु मुनिवरिष्ठैः स्पष्टराद्धान्त उत्तः ॥* तथा च प्रकृत ग्रन्थे‘त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमात्?’ इत्यादिना कथितमस्ति । ज्योतिषेतिवृत्तावलोकनेन विदितचरमेव यज्ज्यौतिषग्रन्थानामाषचार्यप्रणीतत्वेन विभागद्वयं कतु शक्यते । यथा १ देवर्षिप्रणीता आर्षा:। २ मनुष्यरचिता आचार्यप्रणीता:। अद्यकाले हाषग्रन्थानामभाव्: प्रायो दृश्यते। इतिहासदर्शनेन स्पष्ट विज्ञायते यन्मनुष्यरचितेषु १. सि० शि० & पृ० । १. १आ० ३ श्लो० ॥ २ वटे० सि० मध्य० | श्लो० । । ३. सि० शि० ग० म० ५६ श्लो० ।