पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(༢ ) अतोऽस्य वेदाङ्गत्वमत्र ग्रन्थकारेण प्रतिपादितम् । षडङ्गेषु ज्यौतिषस्य मुख्यत्वमपि निगदितमत्र। यथा- - वेदचक्षुः किलेदं स्मृतं ज्यौतिषं मुख्यता चाऽङ्गमध्येऽस्य तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गन हीनो न किञ्चित्करः ॥* उत्तकथनात् पूर्वमेव मुनिना लगधेन वेदाङ्गेभ्यो ज्यौतिषस्य वरिष्ठता प्रतिपादिता वर्तते । उत्तश्च तेन– यथा शिखा मयूराणां नागानां मणयो यथा। तद्वद् वेदाङ्गशास्त्राणां ज्यौतिषं मूध्नि वर्तते ॥* अस्मादिदं 'सद्धं यद्वेदाङ्गेषु ज्यौतिषशास्त्रस्य सर्वातिशायि श्रेष्ठत्वं वरीवति । किन्नाम ज्यौतिषमिति प्रश्ने तावदिदमुत्तरम् - ज्योतींषि प्रतिपाद्यन्ते यस्मिनित्यर्थे *अशं आदिभ्योऽच्*?’ इति सूत्रेण निष्पन्नतया ज्यौतिषशब्दो ज्योतिःप्रतिपादक साङ्केतम् । यद्वा ‘द्योतन्ते प्रकाशन्ते ग्रहनक्षत्रादीनि अनेन’ इात ‘द्युतेरिषन्नादेश्च ज:’ इति उणादिनिष्पन्नोऽयं शब्दः । अस्य शास्त्रस्य त्रिस्कन्धात्मकत्वं नारदे{ प्रतिपादितम् । यथा--- सिद्धान्तसंहिताहोरारूपस्कन्धत्रयात्मकम् । - वेदस्य निर्मलं चक्षुज्यॉतिश्शास्त्रमनुत्तमम् ॥° । अनेन ज्यौतिषशास्त्रस्य त्रयो विभागाः सन्तीति विज्ञायते । प्रस्तुतग्रन्थो हि नाम्ना सिद्धान्तज्यौतिषसम्बन्धीति । तहि सिद्धान्तस्य कि लक्षणमित्युच्यते । सि८ान्तशब्दो गणितवाचकोऽस्तीति गणेशदैवज्ञस्य वाक्यं केशवकृतमुहूर्ततत्वटीकायाम् । सि० शि० ग्र० ग० का० मा० ११ श्लो० । मु० चि० १ अ० २ श्लो० पीयू० टी० । अष्टIo ५2]१२४ ।। . मु० चि० १ अ० २ श्लो० पीयू० टी० ।