सामग्री पर जाएँ

पृष्ठम्:सिद्धान्ततत्त्वविवेकः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० सिद्धान्ततवाविवेके चन्द्रग्रहणाधिकारः । ४२१ दृकूसुत्रसंस्थो भवतः कुभन्दू भूपृष्ठदेशेऽपि यतः सदाऽतः । स्यात् पूर्णिमान्ते ग्रहणं सुधांशो नैवं रवेर्दर्शविरामकाले ॥ ६ ॥ तत्कालजात रविचन्द्रपाता । या रवीन्दोः श्रवणौ स्फुटौ च । तथव दृक्सूत्रमितिस्तदुत्थं दृक्स्पष्टविम्बं हि कळद्यमिन्दोः ॥ २ ॥ रवेश्च तत् स्यात् स्फुटदशैकालं सोऽत्र स्फुटो लम्वनसंस्कृत यः। । दृषत्रसंस्थं रविशीतरश्मी यतः स्फुटे दर्शविरामकाले ॥ ७ ।। विधोः पर्वान्त कालवेद्रात्रौ सूर्यस्य चेदिया। विलोक्यं ग्रहणं तत्रान्यथाऽयत्र स्थितेर्वशात् ॥ ८ ॥ उदीरितं यद्ग्रहणे रवीन्द्र स्तिथौ पुनलेम्वनवत् स्फुटत्वे । श्रीजिष्णुजयैर्नतकर्म तत्र युक्तिं न पश्यामि परां खगोले ॥ ९॥ इति श्रीकमळाकरविरचिते सिद्धान्ततवविवेके ग्रहणसम्भवाधिकरः । विधोः कलाद्यो विशिखः पुरावत् तथैव भूमानयनं हि सूक्ष्मम् । इत्थं विदित्वा प्रथमं ग्रहीः कार्यं हि चन्द्रग्रहणं निशाम् ॥ ३ ॥ तरणिकिरणसङ्गादेष पानीय पिण्डो दिनकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति । तदितरदिशीि नैवं सर्वदा शीतभानु पैट इव निजमूर्तिच्छाययैवातपस्थः ॥४॥ यच्चन्द्रबिम्बीयमुगलखण्डं भूसम्मुखं स्थित दृष्टियोग्यम् । नान्यच्च त दर्शनयोग्यविम्बं स्यात् पूर्णिमान्ते सकळं हि शुक्लम् ॥ ५ ॥ चेदर्कषड्भान्तरभूमिभया। बहिर्गतं तद्विधुविस्वमस्ति । यदा कुभान्तर्गतमिन्दुबिम्बं तदा भवेत् तद्रहणे त्वशुक्लम् ॥ ६ ॥ यद्दर्शनानर्हमिहास्ति तच्च विचारणानर्हमपीति वेद्यम् । स्यात् स्वोदयास्तक्षितिजाद्यदोषं शशाङ्कबिम्बं किल पूर्णिमान्ते ॥ ७ ॥ > < अथ चन्द्रग्रहणाधिकारः । अथात्र पडभान्तरितौ लवायै- स्तुल्यौ स्फुटौ सूर्यविधं यदा स्तः । स पूर्णिमान्ताऽस्य सकृत् स एव चन्द्रग्रहाथे प्रथमं प्रसाध्यः ॥ १ ॥ १३