पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९२५
बालमनोरमा ।

२०७१ । अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् । (५-३-११८)

अभिजिदादिभ्योऽण्णन्तेभ्यः स्वार्थे यञ्स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावृत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः।

२०७२ ।। ञ्यादयस्तद्राजाः । (५-३-११९)

'पूगाञ्ञ्यः-' (सू २०६६) इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः। कौञ्जायनाः । ब्रध्नायनाः, इत्यादि ।


अञ । ञित्स्वरः आद्युदात्तत्वफलः । यौधेया इति ।। अपत्यसङ्घबहुत्वविवक्षायाम् 'तद्राजस्य’ इत्यञो लुक् । 'कितः, तद्धितस्य' इत्यन्तोदात्त फलम् । अभिजिद्विदभृत् ॥ अभिजित्, विदभृत्, शालावत्, शिखावत्, शमीवत्, ऊर्णावत्, श्रुमत्, एषां समाहारद्वन्द्वात् पञ्चम्याः लुक् । अण इति प्रत्ययत्वात् तदन्तग्रहणम् । तदाह । अभिजिदादिभ्य इति ।। अत्र ‘आयुधजीविसङ्घादिति निमित्तम्' इति वृत्तिः । आभिजित्य इति ।। अभिजितोऽपत्यं आभिजितः । अपत्येऽण् । आभिजित एव आभिजित्यः । वैदभृत्य इति ।। विदभृतोऽपत्यं वैदभृतः । स एव वैदभृत्यः । शालावत्य इति ॥ शालावतोऽपत्यं शालावतः, स एव शालावत्यः । शैखावत्य इति ॥ शिखावतोऽपत्यं शैखावतः, स एव शैखावत्यः । शामीवत्य इति ।। शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः । और्णावत्य इति ।। ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः। श्रौमत्य इति ॥ श्रुमतोऽपत्यं श्रौमतः, स एव श्रौमत्यः । अत्र अभिजिदित्यादिशब्देषु यञः स्वार्थिकतया गोत्रार्थकत्वादाभिजितस्यायामिति विग्रहे ‘गोत्रचरणात्' इति वुञि ‘आपत्यस्य च' इति यलोपे आभिजितक इति भवति । “अपत्याणन्तेभ्य एवायं यञ् । तेन आभिजितो मुहूर्त इत्यादौ न यञ्” इति भाष्ये स्पष्टम् । ञ्यादयस्तद्राजाः ॥ लोहितध्वजा इति ।। ‘पूगात्' इति विहितस्य ञ्यस्य तद्राजत्वात् बहुत्वे लुक् । कपोतपाकाः, कौञ्जायनाः,ब्रध्नायनाः इति ॥ 'व्रातच्फञोः' इति विहितस्य ञ्यस्य लुक् । इत्यादीति ।। क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः । आयुधजीवीति ञ्यटो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकोट्टण्यणो लुक् । दामनीयः, दामनीयौ, दामनयः । कौण्डोपरथाः इत्यादौ दामन्यादित्रिगर्तषष्ठात्' इति छस्य लुक् । पार्शवः, पार्शवौ, पर्शवः । यौधेयाः इत्यत्र पर्श्वादियौधेयाद्यणञोर्लुक् । आभिजित्यः, आभिजित्यौ, अभिजितः । विदभृतः इत्यादौ अभिजिद्विदभृदित्यादिविहितस्य यञो लुगिति भावः ॥ इति तद्धिते पञ्चमाध्यायस्य तृतीयपादः समाप्तः ।