पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९२१
बालमनोरमा ।

२०५७ । शिलाया ढः । (५-३-१०२)

शिलेव शिलेयम् । योगविभागात् ढञपीत्येके । शैलेयम् ।

२०५८ । शाखादिभ्यो यः । (५-३-१०३)

शाखेव शाख्यः। मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ।

२०५९ । द्रव्यं च भव्ये । (५-३-१०४)

द्रव्यम् अयं ब्राह्मणः ।

२०६० । कुशाग्राच्छः । (५-३-१०५)

कुशाग्रमिव कुशाग्रीया बुद्धिः ।

२०६१ । समासाच्च तद्विषयात् । (५-३-१०६)

इवार्थविषयात्समासाच्छः स्यात् । काकताळीयो देवदत्तस्य वधः ।


अस्वरितत्वादिति भाव । “संज्ञायाञ्च' इत्यादिपूर्वसूत्रेषु कापि प्रतिकृतावित्यस्यानिवृत्तेः न लुब्विधिषु तेषु तदनुवृत्तिरपेक्षिता । वस्तिरिवेति ॥ “ वस्तिर्नाभेरधो द्वयोः” इत्यमरः । शिलाया ढः ॥ इवेत्येव । शिलेव शिलेयमिति ॥ दध्यादीति शेषः । योगेति ॥ शिलाया इत्येको योगः । ढञित्यनुवर्तते, इवेति च । शैलेयमिति ॥ ञित्वादादिवृद्धिः । स्त्रियां ङीप् च फलम्। ढः इति द्वितीयो योगः । शिलाया इत्यनुवर्तते । उक्तोऽर्थः । शाखादिभ्यो यः ॥ यत् इति त्वपपाठः । तैत्तिरीये ‘मुख्यो भवति’ इत्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च । द्रव्यञ्च भव्ये ॥ दुशब्दादिवार्थवृत्तेः यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । भव्यः आत्मवान्। अभिप्रेतानान्धनानाम्पात्रभूत इति वृत्तिः । द्रव्यम् अयमिति ।। द्रुः वृक्षः, सः यथा पुष्पफलादिभाक् एवमभिमतफलपात्रभूत इत्यर्थः । यद्वा द्रुः कल्पवृक्षोऽत्र विवक्षितः । स इव अभिमतार्थभागित्यर्थः । यप्रत्यये ओर्गुणः अवादेशः । कुशाग्राच्छः ॥ इवेत्येव । कुशाग्रमिवेति ॥ सूक्ष्मत्वे सादृश्यम् । कुशाग्रवत् सूक्ष्मेत्यर्थः । समासाच्च ॥ तच्छब्देन प्रकृतः इवार्थः परामृश्यते। तदाह । इवार्थविषयादिति ॥ इवार्थः सादृश्यमुपमानोपमेयभावात्मकम्, तद्विषयकादित्यर्थः । सादृश्यवदर्थबोधकात् समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि सादृश्यवदर्थबोधकः, तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात् समासादिति विवक्षितमिति न दोषः । छः स्यादिति ॥ चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः । इवार्थे इति शेषः । पूगाञ्ञ्यः इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थकसमस्यमानयावत्पदकात्समासादिवार्थे छः स्यादिति लभ्यते । काकताळीयो देवदत्तस्य वध इति ॥ काकः कश्चिदकस्मात् ताळवृक्षस्य मूलङ्गतस्ताळफलपतनान्मृतः । तथैव कश्चिद्देवदत्तः अकस्मान्निर्जनप्रदेशे क्वचिद्गतः चोरेण हतः । तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकं, प्रत्ययार्थगतम् अन्यत्सादृश्यञ्च भासते ।