पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२०
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

२०५४ । जीविकार्थे चापण्ये । (५-३-९९)

जीविकार्थं यदविक्रीयमाणं तस्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । 'अपण्ये' किम् । हस्तिकान्विक्रीणीते ।

२०५५ । देवपथादिभ्यश्च । (५-६-१००)

कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ।

२०५६ । वस्तेर्ढञ् । (५-३-१०१)

इवेत्यनुवर्तत एव । 'प्रतिकृतौ' इति निवृत्तम् । वस्तिरिव वास्तेयम्- वास्तेयी ।


मनुष्यस्य प्रतिकृतित्वासम्भवादिति भावः। चञ्चेव मनुष्यःचच्चा इत्युदाहरणं वक्ष्यन् चञ्चाशब्दं व्याचष्टे । चञ्चा तृणमयःपुमानिति ॥ चञ्चेति ॥ चञ्चातुल्यो मनुष्योऽयञ्चञ्चासंज्ञक इत्यर्थः । वर्ध्रिकेति ॥ वर्ध्रिका चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्ध्रिकसंज्ञक इत्यर्थः । लुपि युक्तवत्त्वात् स्त्रीत्वम् । वचनं तु विशेष्यवदेव । ‘हरीतक्यादिषु व्यक्तिः' इत्युक्तेः । तेन चञ्चेव मनुष्यो चञ्च इति न भवति । जीविकार्थे चापण्ये ॥ पण्यं विक्रीयमाणम् । तदाह । अविक्रीयमाणमिति ॥ वासुदेव इति ॥ वासुदेवतुल्या जीविकार्था अविक्रेया प्रतिकृतिरित्यर्थः । एवं शिवः इत्यादि । कथं प्रतिकृतेतरविक्रेयायाः जीविकार्थत्वमित्यत आह । देवलकानामिति ॥ प्रतिमाङ्गृहीत्वा भिक्षार्थे प्रतिगृहमटतामित्यर्थः । तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वक्ष्यते । हस्तिकान्विक्रीणीते इति ॥ जीविकार्थं हस्तितुल्यप्रतिकृतिं विक्रीणीते इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् । 'संज्ञायाञ्च' इति विहितस्य नायं लुप् । किन्तु 'इवे प्रतिकृतौ' इति विहितस्यैव । भाष्ये प्रतिकृताविव एतदुदाहरणात् । पठन्ति चाभियुक्ताः “रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तश्च धिक्धिक् । अस्मिन्पद्ये योऽपशब्दं न वेत्ति व्यर्थप्रज्ञं पण्डितं तञ्च धिक् धिक् ॥” इति । अत्र रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासाञ्चात्र पण्यतया कनो लुप् दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः । देवपथादिभ्यश्च ॥ कनो लुप् स्यादिति ॥ शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप् स्यादिति यावत् । देवपथ इति ॥ देवानां पन्थाः देवपथः । तत्प्रतिकृतिरित्यर्थ ।'इवे प्रतिकृतौ' इति कनो लुप् । एवं हंसपथः । अत्र वृत्तौ पठितम् “अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु” अर्चाः प्रतिमाः । पूजार्थासु तासु चित्रकर्मसु ध्वजेषु देवपथादिगणपठितेषु ‘इवे प्रतिकृतौ' इति विहितस्य कनो लुवित्यर्थः । तद्राजस्य’ इति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ। अर्चासु यथा--शिवो विष्णुर्गणपतिरित्यादि । चित्रकर्मसु यथा-रावणः कुम्भकर्ण: इन्द्रजिदित्यादि । ध्वजेषु यथा-कपि: गरुडः वृषभः इत्यादि । वस्तेर्ढञ् ॥ निवृत्तमिति ॥