पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९१९
बालमनोरमा ।

व्याकरणेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सितं तु 'कुत्सिते' (सू २०२९) इत्यस्य । इति तद्धिते प्रागिवीयप्रकरणम् ।

अथ तद्विते स्वार्थिकप्रकरणम् ।

२०५१ । इवे प्रतिकृतौ । (५-३-९६)

कन्स्यात् । अश्व इव प्रतिकृतिः अश्वक । 'प्रतिकृतौ' किम् । गौरिव गवयः ।

२०५२ । संज्ञायां च । (५-३-९७)

इवार्थे कन् स्यात्समुदायश्चेत्संज्ञा । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा अश्वकः । उष्ट्रकः ।

२०५३ । लुम्मनुष्ये । (५-३-९८)

संज्ञायां चेति विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये। “चञ्चा तृणमयः पुमान्' । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ।


गर्वित इति ॥ व्याकरणं हि स्वतो न कुत्सितं पठितम्। अधीतं विस्मृतं सदध्येतृकुत्साहेतुभूतगर्वमावहृदवक्षेपणम् । नावक्षेपणङ्कुत्सा । तत्कथं व्याकरणमवक्षेपणं स्यात् । ‘कुत्सिते' इत्यनेन गतार्थञ्चेदमित्यत आह । येनेतर इति ॥ अवक्षेपणशब्दः करणे ल्युडन्त इति भावः ॥ इति तद्धिते प्रागिवीयप्रकरणम् । अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते । इवे प्रतिकृतौ ॥ कन् स्यादिति ॥ 'अवक्षेपणे कन्’ इत्यतः तदनुवृत्तरिति भावः । इवार्थः उपमानत्वम् । तद्वति वर्तमानात्प्रातिपदिकात्कन् स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिर्मिता प्रतिमा प्रतिकृतिः । अश्वक इति ॥ प्रतिकृतेः स्त्रीत्वेऽपि ‘स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते’ इति पुलिङ्गत्वम् । संज्ञायाञ्च ॥ कनिति शेषः । समुदायश्चेदिति ॥ प्रकृतिप्रत्ययसमुदायश्चेत्प्रकृत्यर्थस्य संज्ञेत्यर्थः । पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । अप्रतिकृत्यर्थमारम्भ इति ॥ तथाच प्रतिकृताविति निवृत्तम् । इव इति त्वनुवर्तत एव । तदाह । अश्वसदृशस्येति ॥ अश्वसदृशस्य अमनुष्यस्य कस्यचित्संज्ञैषा । अश्वसदृशोऽयमश्वकसंज्ञक इति बाधः। लुम्मनुष्ये ॥ संज्ञायां चेति विहितस्येति ॥ नतु ‘इवे प्रतिकृतौ' इति विहितस्य