पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१८
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

२०४८ । वा बहूनां जातिपरिप्रश्ने डतमच् । (५-३-९३)

बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात् । 'जातिपरिप्रश्ने' इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया यः, सः । किमोऽस्मिन्विषये डतरजपि । कतरः ।

२०४९ । एकाच्च प्राचाम् । (५-३-९४)

डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ।

२०५० । अवक्षेपणे कन् । (५-३-९५)


वा बहूनाम् ॥ किंयत्तदो इति, निर्धारणे इति, एकस्येति चानुवर्तते। बहूनामिति निर्धारणे षष्ठी । तदाह । बहूनाम्मध्ये एकस्य निर्धारणे डतमज्वा स्यादिति ॥ मध्ये इत्यनन्तरमेकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम्। जातिश्च परिप्रश्न्नश्चेति समाहारद्वन्द्वः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदां सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणन्तु किम एव विशेषणम् । तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्रयग्रहणं न विशेषणम् । असम्भवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् । “किमादीनान्द्विबह्वर्थे प्रत्ययविधावुपाध्यानर्थक्यम्’ इति । “पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्रे इति च न कर्तव्य इति भावः’ इति कैयटः । तदाह । जातिपरिप्रश्ने इति प्रत्याख्यातमाकरे इति ॥ क्षेपार्थस्य त्वनभिधानान्न ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाच ‘कतमः एषाम्पाचकशरो देवदत्तः' इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारण डतमच् भवति । 'एषाङ्कतमो दवदत्तः' इत्यत्र तु बहूनामेकस्य निर्धारणे डतमच् भवति । अत एव “प्रत्यय इति सूत्रभाष्ये “बहुष्वासीनेषु कश्चित्किञ्चित्पृच्छति कतरो देवदत्तः” इति प्रयोगः सङ्गच्छते । कतमो भवताङ्कठ इति । “गोत्रञ्च चरणैः सह” इति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति ॥ अन्यथा महाविभाषया अपवादेन मुक्ते उत्सर्गस्य प्रवृत्तेरुक्तत्वादकच् न स्यादिति भावः । नच “अव्ययसर्वनाम्नाम्' इत्यस्याधिकारत्वात् तदनुवृत्त्यैव सिद्धे चाग्रहणं व्यर्थमेवेति वाच्यम् । इहैव सूत्रे तदनुवृत्तिः नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात्। अतो डतरविषये नाकच् । महाविभाषयेति ॥ अत एव “अवक्षेपणे' इति सूत्रे भाष्ये क एतयोरर्थयोः विशेषः इति प्रयोगः सङ्गच्छते । तमबादयः प्रागवक्षेपणकनोर्नित्याः प्रत्ययाः इति तु प्रायिकमिति भावः । किंमोऽस्मिन्निति ॥ ‘वा बहूनाम्’ इति प्रकृतसूत्रविषयेऽपीत्यर्थः । बहुष्वासीनेष्वित्याद्युदाहृतभाष्यप्रयोगादिति भावः । एकाच्च प्राचाम् ॥ शेषपूरणेन सूत्र व्याचष्टे । डतरच् डतमच्च स्यादिति ॥ पूर्वसूत्रद्वये इति शेषः । “महाविभाषयैव सिद्धे प्राचाङ्ग्रहणं न कर्तव्यम्” इति भाष्यम् । अत एव नाकजर्थन्तत् । अवक्षेपणे कन् ॥ व्याकरणेन