पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९१७
बालमनोरमा ।

ह्रस्वा कुटी कुटीरः । शमीरः । शुण्डारः ।

२०४४ । कुत्वा डुपच् । (५-३-८९)

ह्रस्वा कुतूः कुतुपः । 'कुतूः कृत्तिस्नेहपात्रं ह्रस्वा सा कुतुपः पुमान्।' इत्यमरः ।

२०४५ । कासूगोणीभ्यां ष्टरच् । (५-३-९०)

आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गोणीतरी ।

२०४६ । वत्सोक्षाश्चर्षभेभ्यश्च तनुत्वे । (५-३-९१)

वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ।

२०४७ । किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् । (५-३-९२)

अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषया क: । यः । सः ।


इति ॥ ‘स्वार्थिकाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते’ इति पुंस्त्वम् । एवं शमीरः शुण्डीरः इत्यपि । ह्रस्वा शमी शुण्डा वेत्यर्थः । कुत्वा डुपच् ॥ कुतुप इति ॥ कुतूशब्दात् डुपचि डित्त्वाट्टिलोपः । तत्रापि कुटीरादिवत् स्त्रीत्वमपहाय पुंस्त्वमेव । तत्रामरकोशमपि प्रमाणयति । कुतूः कृत्तीति ॥ कासूगोणीभ्यां ष्टरच् ॥ ह्रस्व इत्येव । कासूतरीति ॥ षित्वात् ङीषिति भावः । “कासुबुद्धे कुवाच्येऽस्त्रे” इति नानार्थरत्नमालायाम् । एवङ्गोणीतरीति । वत्सोक्ष ॥ ह्रस्वस्य इति निवृत्तम् । वत्स, उक्षन्, अश्व, ऋषभ, एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः स्यादित्यर्थः । तनुत्वं न्यूनत्वम् । वत्सः प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् उत्तरवयःप्राप्त्या ज्ञेयम् । तदाह । द्वितीयं वयः प्राप्त इति ॥ उक्षतर इति ॥ उक्षा तरुणो बलीवर्दः । तारुण्यस्य तनुत्वं तृतीयवयःप्राप्त्या ज्ञेयम् । अश्वतर इति ॥ गर्दभेन अश्वायामुत्पादितः अश्वतर‌ । अश्वतरत्वञ्च अश्वत्वापेक्षया न्यूनमेव । ऋषभतर इति ॥ ऋषभः भारस्य वोढा । तस्य तनुत्वं भारोद्वहने मन्दशक्तिता । तद्वानित्यर्थः । ननु कृशो वत्सो वत्सतर इति कुतो नेत्यत आह । प्रवृत्तिनिमित्ततनुत्वे एवायमिति ॥ एतच भाष्ये स्पष्टम् । किंयत्तदो निर्धारणे ॥ किम्, यत्, तत्, एषां समाहारद्वन्द्वात्पञ्चमी । द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यः डतरच् स्यादित्यर्थः । अनयोः कतरो वैष्णव इति ॥ को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन किंशब्दार्थः इदमर्थाभ्यां निर्धार्यते । अतः किंशब्दात् डतरचि डित्वाट्टिलोपे कतरः इति भवति । एवं यद्शब्दात् तद्शब्दाच्च डतरचि टेिलोपे यतरः ततरः इति भवति । निर्धार्यमाणवाचिभ्य इति किम् । कयोरन्यतरो देवदत्तः, ययोरन्यतरः, तयोरन्यतरः, इत्यत्रापि किमादिभ्यो न भवति ।