पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९१३
बालमनोरमा ।

२०३३ । बह्वचो मनुष्यनाम्नष्ठज्वा । (५-४-७८)

पूर्वसूत्रद्वयविषये ।

२०३४ । घनिलचौ च । (५-३-७९)

तत्रैव ।

२०३५ । ठाजादावूर्ध्वं द्वितीयादचः । (५-३-८३)

अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः-देवियः-देविल:-देवदत्तकः । अनुकम्पितो वायुदत्तः-वायुकः । ठग्रहणमुको द्वितीयत्वे कविधानार्थम् । वायुकः-पितृकः । 'चतुर्थोदच ऊर्ध्वस्य लोपो वाच्यः' (वा ३२९६) ।


अनुकम्पायुक्ता इति भावः । बह्वचो मनुष्य ॥ ठजिति च्छेदः । पूर्वसूत्रद्वयविषये इति शेषपूरणम् । ‘अनुकम्पायाम्’ इति ‘नीतौ च तद्युक्तात्' इति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकात् ठज्वा स्यादित्यर्थः । पक्षे कः । धनिलचौ च ॥ तत्रैवेति ॥ शेषपूरणमिदम् । बह्वच इति पूर्वसूत्रविषये इत्यर्थः । 'अनुकम्पायाम्' इति 'नीतौ च तद्युक्तात्' इति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः घन् इलच् एतौ च प्रत्ययावित्यर्थः । ठाजादौ । अस्मिन्प्रकरणे इति ॥ अनुकम्पायां, नीतौ च इत्यस्मिन्प्रकरणे इत्यर्थः । सन्निधानलभ्यमिदम् । सर्वमिति ॥ ऊर्द्ध्वग्रहणादिदं लभ्यते । अन्यथा ‘आदेः परस्य’ इति परिभाषया द्वितीयाचः यः परः तस्यादेरेव स्यादिति भावः । ‘अजिनान्तस्योत्तरपदलोपश्च' इत्यतो लोप इत्यनुवृत्तमिह कर्म साधनमाश्रीयते इति मत्वा आह । लुप्यते इति । देविक इति ।। देवदत्तशब्दात् ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम् । देविय इति ।। देवदत्तशब्दात् घनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति ॥ इलचि दत्तशब्दस्य लोपः । देवदत्तकः इति ॥ कप्रत्यये सति ठाजाद्यभावान्न दत्तपदलोपः । वायुक इति ॥ वायुदत्तशब्दात् दत्तशब्दस्य लोपः । उकः परत्वात् ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह । ठग्रहणमिति ॥ कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वात् लोपे कृते ठस्य उकः परत्वात्कादेशः सिद्ध्यति । अन्यथा इकादेशे कृते अजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु इक इति स्थिते ठस्याभावात् कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शङ्क्यम्। ‘ठस्येक:’ इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अल्विधित्वात् सन्निपातविरोधाच्चेति भाष्ये स्पष्टम् । पितृक इति ॥ पितृदत्तशब्दात् ठवि दत्तशब्दस्य लोपे उकः परत्वात् ठस्य कः । अथ “चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्टः उवर्णाल्ल इलस्य च” इति वक्ष्यमाणश्लोकवार्तिकं भङ्क्त्वा चतुर्थादच इत्येतद्व्याचष्टे । चतुर्थादच ऊर्ध्वस्य लोपो वाच्य इति ॥ बृहस्पतिक इति ॥ बृहस्पतिदत्तशब्दात् ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः । द्वितीयादूर्ध्वत्वाभावादप्राप्ते वचनम् ।