पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९०३
बालमनोरमा ।

२००१ । अतिशायने तमबिष्ठनौ । (५-३-५५)

 अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्त । अयमेषामतिशयेनाढ्यः आढ्यतमः । लघुतमो लघिष्ठः ।

२००२ । तिङश्च । (५-३-५६)

 तिङन्तादतिशये द्योत्ये तमप्स्यात् ।

२००३ । तरप्तमपौ घः । (१-१-२२)

 एतौ घसंज्ञौ स्तः ।


शुभ्राया भूतपूर्व इति । गौरिति शेषः । शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासम्बन्धी गौरित्यर्थः । अतिशायने ॥ अतिपूर्वक शीङ्धातुरुपसर्गवशादुत्कर्षे वर्तते । उत्कर्षश्चाधिक्य फलको न्यक्कारः, नत्वाधिक्यमात्रम् । तथा सति अकर्मकत्वापातात् । नचेष्टापत्तिः । तथा सति शुक्लमतिशेते शुक्लतरः, कृष्णमतिशेते कृष्णतरः” इत्यादि भाष्यविरोधात् । “अतिशयिता अतिशायनः, बाहुळकः कर्तरि ल्युट्” इति भाष्यम्। अत एव निपातनाद्दीर्घः । अतिशायने इति प्रकृत्यर्थविशेषणम् । अतिशयितरि विद्यमानात् प्रातिपदिकात् स्वार्थे तमप् स्यादित्यर्थः । फलितमाह । अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्यापत्तौ शुक्लतरादिशब्दात् शुक्लादिगतमतिशयनमिति बोधः स्यात् । नत्वतिशयितशुक्ल इति । तथा च शुक्लतरः शुक्लतरेति पुंस्त्वञ्च स्रीत्वञ्च न स्यात् । अतिशायने वर्तमानादित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यात् नतु पट्टादिभ्यः । अतिशयविशिष्टेलक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः । अतिशयनकर्तरि लक्षणायान्तु भाष्योक्तमेव साधु इत्यास्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादौ वक्ष्येते । अतः परिशेषाद्बहूनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढ्य इति । द्रव्यस्य जातेर्वा स्वतः प्रकर्षयोगो नास्ति । अन्यथा घटतम इत्याद्यापत्तः । किन्तु गुणद्वारैव द्रव्यजात्योः प्रकर्षयोगः । तथा च आढ्यतम इत्यत्र उत्कर्षविशिष्टः आढ्यः प्रकृत्यर्थः । तमप्तु तद्द्योतकः । तमपि सति ‘सुपो धातु’ इति सुपो लुक् । 'घकालतनेषु' इति योगेन सुबन्तादेव तद्धितोत्पत्तेरुक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभिधानान्न भवति । “श्रेष्ठतमाय कर्मणे” इति तु छान्दसमिति भाष्ये स्पष्टम् । लघिष्ठ इति ॥ लघुशब्दादिष्ठनि ओर्गुणे प्राप्ते 'इष्टेमेयस्सु' इत्यनुवृत्तौ ‘टेः’ इति टिलोपः । तिङश्च ॥ अत्राप्रातिपदिकादप्राप्ते वचनम् । तमप् स्यादिति ॥ ‘अजादी गुणवचनादेव' इति नियमादिष्ठन्नानुवर्तत इति भावः । तरप्तमपौ घः ॥ प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते पितौ घः, तादी धः, इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहिर्भूतस्य सत्त्वे तत्सङ्ग्रहणार्थे प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः। तेन ‘अल्पाच्तरं’ 'लोपश्च बलवत्तरः'