पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०२
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

१९९६ । षष्ठाष्टमाभ्यां ञ च । (५-३-५०)

 चादन् । षष्ठो भागः-षाष्ठः । आष्टमः-अष्टमः ।

१९९७ । मानपश्चङ्गयोः कन्लुकौ च । (५-३-५१)

 षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । अस्यानो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः-षाष्ठः । अष्टमः-आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ।

१९९८ । एकादाकिनञ्चासहाये । (५-३-५२)

 चात्कन्लुकौ । एकः-एकाकी-एककः ।

१९९९ । भूतपूर्वे चरट् । (५-३-५३)

 आढ्यो भूतपूर्व आढ्यचरः ।

२००० । षष्ठ्या रूप्य च । (५-३-५४)

 षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः-कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ।


मिति शङ्कयम् । तस्य छन्दस्यपि प्रवृत्यर्थत्वात् । षष्ठाष्टमाभ्यां ञ च ॥ पूर्वसूत्रविषये इति शेषः । ञेति लुप्तप्रथमाकम् । ञे आदिवृद्धिः । चादनिति । इह न यथासङ्ख्यम्। व्याख्यानात् । मानपश्वङ्गयोः । अस्य अनो वेति । अष्टमशब्दात्पूर्वसूत्रविहितस्य अप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । अप्रत्ययः अन्प्रत्ययश्चेत्यर्थः । ननु 'समर्थनाम्' इत्यतो वाग्रहणानुवृत्त्यैव ञानोरभावे सति पश्वङ्गे अष्टमो भाग इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्क्य आह । महाविभाषयेति । पूर्वत्रेति ॥ 'षष्ठाष्टमाभ्यां ञ च' इति सूत्रे इत्यर्थः । एवं षष्ठाष्टमाभ्यां शब्दाभ्यां ञानोरिह नित्यम्प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः । एकादाकिनञ्चासहाये ।असहायवाचकादेकशब्दात्स्वार्थे आकिनच्प्रत्ययः स्यादित्यर्थः । भूतपूर्वे चरट् ॥ भूतपूर्वे वर्तमानात्प्रातिपदिकात् स्वार्थे चरट् स्यादित्यर्थः । षष्ठ्या रूप्य च ॥ रूप्येति लुप्तप्रथमाकम्। भूतपूर्वे इत्यनुवर्तते । षष्ठ्यन्तात् भूतपूर्वेऽर्थे इति ॥ भूतपूर्वेऽर्थे विद्यमानात् षष्ठ्यन्तादित्यन्वयः । भूतपूर्वे इत्यनुवृत्तं हि श्रुतत्वात् षष्ठ्या विशेषणम् । भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः । कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसम्बन्धी गौरित्यर्थः । शुभ्रारूप्यशब्दे 'तसिलादिषु' इति पुंवत्त्वमाशङ्क्य 'तसिलादयः प्राक् पाशपः' इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह । तसिलादिष्वित्यादि ॥