सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९६
[प्राग्दिशीय
सिद्धान्तकौमुदीसहिता

तदा-तदानीम् । “तदो दावचनमनर्थकं, विहितत्वात्' (वा ३२४३)

१९६९ । अनद्यतने र्हिलन्यतरस्याम् । (५-३-२१)

कर्हि-कदा । यर्हि-यदा । तर्हि--तदा । एतस्मिन्काले एतर्हि ।

१९७० । सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरे द्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । (५-३-२२)

एते निपात्यन्ते । समानस्य सभावो द्यस् चाहनि' (वा ३२४५) । समानेऽहनि सद्यः। “पूर्वपूर्वतरयोः परभाव उदारी च संवत्सरे’ (वा ३२४६) । पूर्वस्मिन्वत्सरे परुत् । पूर्व तरे वत्सरे परारि । ’इदम (इश) समसण् (वा ३२४७) । अस्मिन्संवत्सरे ऐषमः । परस्मादेद्यव्यहनि' (वा ३२४८) परस्मिन्नहनि परेद्यवि । ‘इदमोऽश्भावो द्यश्च' (वा ३२४९) अस्मिन्नहनि अद्य । पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् च' (वा ३२५०) । पूर्वस्मि न्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्नोरुभयेद्युः । ’द्युश्चोभया द्वक्तव्यः' (वा ३२५१) । उभयद्युः । ।

१९७१ । प्रकारवचने थाल् । (५-३-२३)

प्रकारवृत्तिभ्यः किमादिभ्यस्थाल्स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ।


सप्तम्यन्तात्कालवृत्तेः तद्शब्दात् दाप्रत्ययः, दानीम्प्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति ॥ वार्तिकमिदम् । विहितत्वादिति ॥ 'सर्वैकान्य' इत्यनेनेति शेषः । अनद्यतनेर्हिल् ॥ अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यः र्हिल्प्रत्ययो वा स्यादित्यर्थः । पक्ष दाप्रत्ययः । एतस्मिन्काले एतर्हीति ॥ एतद्शब्दात् र्हिल् । एतद इति योगविभागात् रेफादौ एतादेशः । सद्यः परुत्।। 'समानस्य सभावो द्यस् चाहनि' इति भाष्यवाक्यमिदम् । अहर्वृत्तेः समानशब्दात् सप्तम्यन्तात् द्यस्प्रत्ययः । समानस्य सभावश्च निपात्यते इत्यर्थः । समानेऽहनीत्यर्थः । ;पूर्वपूर्वतरयोः परभाव उदारी च संवत्सरे' इत्यपि भाष्यवाक्यम् । उच्च आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये । 'इदम (इश्) समसण्” इत्यपि भाष्यवाक्यम् । ऐषम इति ॥ समसणि णकार इत्, सकारादकार उच्चारणार्थः । णित्वादादिवृद्धिः । 'परस्मादेद्यव्यहनि ” इत्यपि भाष्यवाक्यम् । सप्तम्यन्तात् एद्यविरिकारान्तः प्रत्ययः । "इदमोऽश्भावो द्यश्च" इत्यपि भाष्यवाक्यम् । सप्तम्यन्तात् अकारान्तो द्यस्प्रत्ययः “पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य” इत्यपि भाष्यवाक्यम् । प्रकारवचने थाल् ॥ पञ्चम्यर्थे सप्तमीत्याह प्रकारवृत्तिभ्य इति ॥ सामान्यस्य भेदको विशेषः प्रकारः । यथा बहुभिः प्रकारैर्भुङ्क्ते इति विशेषैरिति गम्यते । सादृश्यं त्विह न