पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८९५
बालमनोरमा ।

]

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । “दृशिर्ग्रहणा द्भवदादियोग एव' (वा ३२४४) । स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवानाम्प्रियः । आयुष्मान् ।

१९६४ । सर्वैकान्यकिंयत्तदः काले दा । (५-३-१५)

सप्तम्यन्तेम्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले । सदा । सर्वदा । एकदा । अन्यदा । यदा । कदा । तदा । “काले' किम् ।सर्वत्र देशे

१९६५ । इदमो र्हिल् । (५-३-१६)

सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । 'काले' किम् । इह देशे ।

१९६६ । अधुना । (५-३-१७)

इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थे अधुनाप्रत्ययः स्यात् । इश् । 'यस्य-' (सू ३११) इति लोपः । अधुना ।

१९६७ । दानीँ च । (५-३-१८)

इदानीम् ।

१९६८ । तदो दा च । (५-३-१९)


पञ्चमीसप्तमीतरविभक्तिभ्योऽपीत्यर्थः । फलितमाह । पञ्चमीसप्तमीतरविभक्त्यन्तादपीति ॥ किमादेरिति शेषः । एवमिति ॥ स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घायुरित्याद्यूह्यमित्यर्थः । सर्वैकान्य ॥ सप्तम्यन्तेभ्यइति।। किमादिभ्य इति शेषः । सप्तम्या इत्येवा नुवर्तते । व्याख्यानादिति भावः । सदा-सर्वदेति ॥ ‘सर्वस्य सोऽन्यतरस्यान्दि’ इति सभाव विकल्पः । कदेति ॥ किंशब्दात् दाप्रत्यये सति तस्य ‘किमः कः’ इति कादेशः । इदमो र्हिल् ॥ इदमः र्हिल् इति छेदः। एतर्हीति ॥ इदम्शब्दात् र्हिल्,'एतेतौ रथो.'इत्येतादेशः । अधुना ॥ इदम इति सप्तम्या इति काले इति चानुवर्तते। तदाह । इदम इति ॥ इशिति ॥ ‘इदम इश्’ इत्यनेनेति शेषः। अधुनेति ॥ इयदितिवत्प्रत्ययमात्रं शिष्यते । पठन्ति चाभियुक्ताः “उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयश्च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतङ्केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि” इति वैयाकरणीमौपनिषदीञ्च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः । दानीञ्च ॥ इदमः सप्तम्यन्तात् कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति ॥ इदंशब्दात् दानीम्प्रत्ययः, इश् । तदो दा च ॥