पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९४
[प्राग्दिशीय
सिद्धान्तकौमुदीसहिता

१९५८ । इदमो हः । (५-३-११)

त्रलोऽपवादः । इशादेशः । इह ।

१९५९ । किमोऽत् । (५-३-१२)

वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात् । पक्षे त्रल् ।

१९६० । क्वाति । (७-२-१०५)

किमः क्वादेशः स्यादति । क्व । कुत्र ।

१९६१ । वा ह च च्छन्दसि । (५-३-१३)

'कुह स्थः' । 'कुह जग्मथुः' ।

१९६२ । एतदस्त्रतसोस्तसौ चानुदात्तौ । (२-४-३३)

अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः, तौ चानुदात्तौ स्तः । एतस्मिन्ग्रामे सुखं वसामः । अतोऽत्राधीमहे । अतो न गन्तारः स्मः।

१९६३ । इतराभ्योऽपि दृश्यन्ते । (५-३-१४)


सप्तम्यन्तेभ्यः अद्व्यादिभ्यस्त्रलित्यर्थः । कुत्र इत्यादिरूपाणि, कुत इत्यादिवत् । इदमो हः ॥ इदंशब्दात् सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः । किमोऽत् ॥ अपकृष्यते इति ॥ ‘वा ह च छन्दसि ' इत्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् । न विभक्ताविति निषेधस्तु न भवति । ‘तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते’ इति वार्तिकात् । क्वाति ॥ क्व अतीति छेदः । क्वेति लुप्तप्रथमाकं ‘किमः क’ इत्यतः किम इत्यनुवर्तते । तदाह । किमः क्वेति ॥ किंशब्दात् सप्तम्यन्तात् अत्प्रत्ययः , तकार इत्, किमः क्वादेश इति भावः । कुत्रेति ।। अत्प्रत्ययाभावपक्षे त्रलि ‘कुतिहोः'इति कुभावे रूपम् । केचित्तु ‘किमोऽत्’ इत्यत्र उत्तरसूत्राद्वाग्रहणापकर्षे प्रमाणाभावात्त्रलम्बाधित्वा नित्य एव अत्प्रत्ययः कुत्रेति त्वपशब्द एवेत्याहुः। वा ह च छन्दसि ॥ हेति लुप्तप्रथमाकम् । किमः सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः । चादत् त्रल् च। यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयम् । तथापि वाग्रहणस्य पूर्वसूत्रे अपकर्षज्ञानायात्र तदुपन्यासः । एतदस्त्रतसोः ॥ ‘इदमोऽन्वादेशे ’ इत्यस्मात् अन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह । अन्वादेशेत्यादिना । अतोऽत्रेति ॥ एतद्शब्दात् त्रलि प्रकृतेरशादेशे अत्रेति रूपम् । अतो न गन्तारः स्म इति ॥ एतस्माद्ग्रामादित्यर्थः । एतद्शब्दात्तसिल् प्रकृतेरशादेशः । ‘एतदोऽन्’ इत्येव सिद्धे अनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन तसेरुदात्तत्वं सिद्धमिति शङ्क्यम् । लित्स्वरापवादे अशोऽनुदात्तत्वे कृते लित्स्वराप्राप्त्या प्रत्ययस्वरेणात्र तसेरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् । इतराभ्योऽपिदृश्यन्ते ।।