पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८९३
बालमनोरमा ।

१९५४ । कु तिहोः । (७-२-१०४)

किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु द्वाभ्याम् ।

१९५५ । तसेश्च । (५-३-८)

किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थम् विभक्त्यर्थं च वचनम्।

१९५६ । पर्यभिभ्यां च । (५-३-९)

आभ्यां तसिल्स्यात् । “ सर्वोभयार्थाभ्यामेव' (वा ३२४०) । परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः ।

१९५७ । सप्तम्यास्त्रल् । (५-३-१०)

कुत्र । यत्र । तत्र । बहुत्र ।


वाग्रहणस्यानुवृत्तेरिति भावः । कु तिहोः ॥ कु इति लुप्तप्रथमाकम् । ‘किमः कः’ इत्यस्मात् किमः इत्यनुवर्तते । 'अष्टन आ' इत्यतो विभक्ताविति । तिश्च ह् च तयोरिति द्वन्द्वः । इकार उच्चारणार्थः । ताभ्यां विभक्तिर्विशेष्यते । तदादिविकिमः कुःधिः । तदाह । किमः कुः स्यादित्यादिना ।। कुत इति ॥ किंशब्दात् पञ्चम्यन्तात्तसिल् । सुब्लुक् । किमः कुभावः । ‘तसिलादयः प्राक् पाशपः’ इत्युक्तेरव्ययत्वम्। वेत्यनुवृत्तेः फलमाह । कस्मादिति॥तिहोरित्युक्तेरत्र न कुभावः सर्वनाम्न उदाहरति । यत इति ।। यद्शब्दात् पञ्चम्यन्तात् सुब्लुक्, तसिलो विभक्तित्वात् तस्मिन्परे त्यदाद्यत्वं पररूपम् । एवन्तच्छब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति ॥ एतद्शब्दात् पञ्चम्यन्तात् तसिल्, सुब्लुक्, एतदोऽन्, सर्वादेशः, नलोपः। पक्षे एतस्मादिति भवति । इत इति ॥ इदंशब्दात्पञ्चम्यन्तात् तसिल्, सुब्लुक्, इदम इश् । पक्षे अस्मादिति भवति । अमुत इति ॥ अदस्शब्दात् पञ्चम्यन्तात् तसिल्, उत्वमत्वे च । पक्षे अमुष्मादिति भवति । बहुत इति ॥ पक्षे बहुभ्य इति भवति । द्व्यादेस्त्विति ॥ सर्वनामत्वात् प्राप्तस्तसिल् द्व्यादिपर्युदासान्नेत्यर्थः । तसेश्च ॥ परस्य तसेरिति ॥ “ प्रतियोगे पञ्चम्यास्तसिः’ ’अपादाने चाहीयरुहोः' इति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल् किमर्थमित्यत आह । स्वरार्थमिति ॥ लित्स्वरार्थमित्यर्थः । विभक्त्यर्थमिति ॥ विभक्तिनिमित्तकत्यदाद्यत्वाद्यर्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वात् विभक्तित्वाभावात् त्यदाद्यत्वादिकन्न स्यादित्यर्थः । पर्यभिभ्याञ्च॥ सर्वोभयार्थाभ्यामेवेति ॥ वार्तिकमिदम् । परिषिञ्चति, अभिषिञ्चति, इत्यादौ वाग्रहणात् पक्षे न तसिल् । सप्तम्यास्त्रल् ॥ किमादिभ्यः