पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८६
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

१९२७ ॥ रूपादाहृतप्रशंसयोर्यप् । (५-२-१२०)

आहृतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । । आहत-' इति किम् । रूपवान् ।' अन्येभ्योऽपि दृश्यते' (वा ३२१०) । हिम्याः पर्वताः । गुण्याः ब्राह्मणाः ।

१९२८ । अस्मायामेधास्रजो विनिः । (५-२-१२१)

यशस्वी-यशस्वान्। मायावी । ब्रीह्यादिपाठादिनिठनौ । मायी-मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी । “आमयस्योपसङ्ख्यानं दीर्घश्च' (वा ३२१३) । आमयावी । ' श्रृङ्गबृन्दाभ्यामारकन्’ (वा ३२१४) । शृङ्गारकः । बृन्दारकः । 'फलबर्हाभ्यामिनच् ' (वा ३२१५) । फलिनः । बर्हिणः । “हृदयाच्चालुरन्यतरस्याम्' (वा ३२१६) । इन्ठनौ मतुप्च । हृदयालुः-हृदयी-हृदयिकः-- हृदयवान् । “शीतोष्णतृप्रेभ्यस्तदसहने-' (वा ३२१७) । शीतं न सहते शीतालुः । उष्णालुः । ‘स्फायितञ्चि' इति रक् । तृप्रः पुरोडाशः, तं न सहते

रूपादाहत ।। आहतेति भावे क्तः । आहतविशेषणकात् प्रशंसाविशेषणकाच्च रूपशब्दात् मत्वर्थे यप् स्यादित्यर्थः । आहतं रूपमिति ।। आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्दाद्यपि रूप्यशब्द इत्यर्थः । रूप्यः कार्षापण इति ।। परिमाणविशिष्टः रजतसुवर्णादिर्मुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते । तत्स्वरूपञ्च स्वर्णकारकृताहनननिष्पाद्यमिति बोद्ध्यम् । रूप्यो गौरिति ।। प्रशस्तरूपसम्पन्न इत्यर्थः । अन्येभ्योऽपीति ।। वार्तिकमिदम् । रूपशब्दादन्येभ्योऽपि यप् दृश्यत इत्यर्थः । हिम्याः पर्वताः इति ।। भूम्नि यप् बहुळं हिममेष्वस्तीति विग्रहः । गुण्या ब्राह्मणा इति ।। प्रशंसायां यप् । प्रशस्तगुणसम्पन्ना इत्यर्थः । अस्मायामेधास्रजो विनिः ॥ असित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा स्रज्, एभ्यः विनिप्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति ॥ तसौ मत्वर्थे ’ इति भत्वान्न रुत्वमिति भाव । यशस्वानिति ।। “एकगोपूर्वात्' इति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्यांग्रहणमिह मण्डूकप्लुत्या अनुवर्तते । ‘तसौ मत्वर्थे इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । स्रग्वीत्यत्र ‘व्रश्च' इति षत्वमाशङ्क्य आह । क्विन्नन्तत्वादिति । आमयस्येति ।। आमयशब्दात् मत्वर्थे विनिः, प्रकृतेर्दीर्घश्चेत्यर्थः । श्रृङ्गवृन्दाभ्यामिति, फलबर्हाभ्यामिति, ह्रदयाच्चालुरन्यतरस्यामिति ।। वार्तिकमिदं त्रयम्। मतुप्चेति ॥ वक्तव्यः इति शेषः । भाष्ये तथोक्तत्वात्। चुट् इति चकारस्येत्संज्ञा । अन्यतरस्याङ्ग्रहणाच्चालोरभावे इनिठनौ । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि । तथाचात्र चत्वारः प्रत्ययाः । तदाह । हृदयालुरित्यादि ।। शीतोष्णतृप्रेभ्यः तदसहने चालुर्वक्तव्य इति वाचनिकमर्थतः सङ्गृह्णाति । शीतेति ।। शीत, उष्ण, तृप्र, एभ्यः द्वितीयान्तेभ्यः न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः। तृप्रः पुरोडाश इति ॥ मन्त्रभाष्ये ‘स्फायितञ्चि'इति सूत्रे तथोक्त