पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८८५
बालमनोरमा ।

१९२३ । व्रीह्यादिभ्यश्च । (५-२-११६)

व्रीही-व्रीहिकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि । “शिखामालासंज्ञादिभ्य इनिः, यवखलादिभ्य इकः' (वा ३२०९) । अन्येभ्य उभयम् ।

१९२४ । तुन्दादिभ्य इलच्च । ५-२-११७)

चादिनिठनौ मतुप्च । तुन्दिलः-तुन्दी-तुन्दिकः-तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि, 'स्वाङ्गाद्विवृद्धौ' (ग. सू. १२४) “विवृद्ध्युपाधि कात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णे यस्य स कर्णिलः-कर्णी कर्णिकः - कर्णवान् ।

१९२५ । एकगोपूर्वाठ्ठञ्नित्यम् । (५-२-११८)

एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिक । गौशतिकः । गौसहस्रिकः ।

१९२६ । शतसहस्रान्ताच्च निष्कात् । (५-२-११९)

निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाठ्ठञ्स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ।


वृक्षवान्, सप्तम्यां दण्डाः अस्यां शालायां सन्ति दण्डवती, इदं प्रायिकम् । तेन “कार्यी-कार्यिकः, तण्डुली-तण्डुलिकः इत्यादि सिद्धम्” इति भाष्ये स्पष्टम् । व्रीह्यादिभ्यश्च ॥ मत्वर्थे इनिठनौ इति शेषः । शिखामालेत्यादि ।। वार्तिकमिदम् । शिखा, माला, संज्ञा, वीणा, बडबा बालका, पताका, वर्मन्, शर्मन् एभ्यः इनिरेव नतु ठनित्यर्थः । यवखलेति ॥ यवखल नौ कुमारी एभ्यः ठनेव, नत्विनिरित्यर्थः । परिशिष्टेभ्यस्तु व्रीह्यादिगणपठितेभ्यः उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम्। तुन्दादिभ्य इलञच्च॥ मतुप्चेति ॥ समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्दादिगणपठिताः । स्वाङ्गाद्विवृद्धाविति ॥ गणसूत्रमिदम् । वृद्धविषयात् स्वाङ्गादिलच् इनिठनौ मतुप्चेत्यर्थः । कर्णिल इति ॥ वृद्धौ कर्णौं अस्येति विग्रहः । एकगोपूर्वाट्ठञ्नित्यम् ॥ एकपूर्वात् गोपूर्वाच्च नित्यण्ठञ् स्यादित्यर्थः । यद्यपि नित्यग्रहणा भावेऽपि ठञा इनिठनोर्निवृत्तिः सिद्ध्यति । तथापि समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्त्या मतुप् समुच्चीयेत । तन्निवृत्त्यर्थं नित्यग्रहणम् । ऐकशतिक इति ॥ 'पूर्वकाल’ इति समासः । ’सङ्ख्यायाः संवत्सर' इत्युत्तरपदवृद्धिस्तु न । तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात् । शतसहस्र ॥ निष्कात् पराविति ॥ असामर्थ्येऽपि सौत्रत्वात् समास इति भावः ।